पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From vowel Ekapaatalaa to Ah)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

Ekapaatalaa - Ekashruta (  Ekalavya etc.)

Ekashringa - Ekaadashi ( Ekashringa, Ekaadashi etc.)

Ekaananshaa - Airaavata (  Ekaananshaa, Ekaamra, Erandi, Aitareya, Airaavata etc.)  

Airaavatee - Odana  ( Aishwarya, Omkara, Oja etc.)

Oshadhi - Ah ( Oshadhi/herb, Oudumbari, Ourva etc.)

 

 

 

Previous page

 

संदर्भ

ओषधि

*या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥ (दे. अग्निर्वैश्वानरः) -ऋ. १.५९.३

*मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः ॥ -ऋ. १.९०.६

*या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु। तेभिर्नो विश्वैः सुमना अहेळन् राजनत्सोम प्रति हव्या गृभाय ॥ -ऋ. १.९१.४

*त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः। -ऋ. १.९१.२२

*पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश। वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥ -ऋ. १.९८.२

*स गा अविन्दत् सो अविन्ददश्वान् त्स ओषधीः सो अपः स वनानि ॥ -ऋ. १.१०३.५

*यदिन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्वोषधीष्वप्सु। -ऋ. १.१०८.११

*मनवे शासदव्रतान् त्वचं कृष्णामरन्धयत्। दक्षन्न विश्वं तृतषाणमोषति न्यर्शसानमोषति ॥ -ऋ. १.१३०.८

*अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः। यदा ते मर्तो अनु भोगमानळादिद् ग्रसिष्ठ ओषधीरजीगः ॥ -ऋ. १.१६३.७

*दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम्। अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥ -ऋ. १.१६४.५२

*विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥ (मरुतः) -ऋ. १.१६६.५

*त्वं हि शूर सनिता चोदयो मनुषो रथम्। सहावान् दस्युमव्रतमोषः पात्रं न शोचिषा ॥ -ऋ. १.१७५.३

*यदपामोषधीनां परिंशमारिशामहे। वातापे पीव इद् भव ॥ -ऋ. १.१८७.

*करम्भ ओषधे भव पीवो वृक्क उदारथि:। वातापे पीव इद् भव ॥ -ऋ. १.१८७.१०

*त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ (अग्निः) -ऋ. २.१.१

त्वं वनेभ्यो वृक्षादिसमूहेभ्यो दावरूपण। त्वमोषधीभ्यो वैश्वानररूपेण ।(सा.भा.)

*वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥( अग्निः) -ऋ. २.४.४

*अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम्। (अग्निः) -ऋ. ३.१.१३

*सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन। (अग्निः) -ऋ. ३.५.८

*अग्ने यत् ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र। -ऋ. ३.२२.२

*इन्द्र ओषधीरसनोदहानि वनस्पतीरसनोदन्तरिक्षम्। -ऋ. ३.३४.१०

*इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥ -ऋ.३.५१.५

*सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त। -ऋ. ३.५४.२१

*निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति। -ऋ. ३.५५.२२

*सुक्षेत्राकृण्वन्ननयन्त सिन्धून् धन्वातिष्ठन्नोषधीर्निम्नमापः ॥ (ऋभवः) -ऋ. ४.३३.७

*मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम्। -ऋ. ४.५७.३

*स वावृधान ओषधीभिरुक्षितो३ ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ (अग्निः) -ऋ. ५.८.७

*धन्या सजोषा धिषणा नमोभिर्वनस्पतींरोषधी राय एषे ॥ -ऋ. ५.४१.८

*आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥ -ऋ. ५.४१.११

*प्रैषः स्तोमः पृथिवीमन्तरिक्षं वनस्पतींरोषधी राये अश्याः। -ऋ. ५.४२.१६

*ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः ॥ -ऋ. ५.४३.१३

*अधारयतं पृथिवामुत द्यां मित्रराजाना वरुणा महोभिः। वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥। -ऋ. ५.६२.३

*कनिक्रदद् वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥ (पर्जन्यः) -ऋ. ५.८३.१

*प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः। इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥ -ऋ. ५.८३.४

*यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥ -ऋ. ५.८३.५

*अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषां ॥ -ऋ. ५.८३.१०

*दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत्। -ऋ. ६.३.७

*अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥ (अग्निः) -ऋ. ६.१२.३

*प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वतांश्च ॥ -ऋ. ६.२१.९

*अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥।( इन्द्रः) -ऋ. ६.३९.५

*तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये ॥ -ऋ. ६.४९.१४

*पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥ -ऋ. ६.५२.६

*तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥ (अग्निः) -ऋ. ७.४.५

*वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥( अग्निः) -ऋ. ७.८.२

*तन्नो रायः पर्वतास्तन्न आपस्तद् रातिषाच ओषधीरुत द्यौः। वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ -ऋ. ७.३४.२३

*तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त। -ऋ. ७.३४.२५

*शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥ -ऋ. ७.३५.५

*यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम्। विश्वे देवा निरितस्तत् सुवन्तु मा मां पद्येन रपसा विदत् त्सरुः ॥ -ऋ. ७.५०.३

*सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु। अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥ -ऋ. ७.५६.२२

*तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त। -ऋ. ७.५६.२५

*प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्~ बृहतः सुदानू। स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥ -ऋ. ७.६१.३

स्पशः - रूपं

*यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु। नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ -ऋ.७.७०.३

*चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम्। -ऋ. ७.७०.४

*तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघमूधः। स वत्सं कृण्वन् गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥ (पर्जन्यः) ॥ -ऋ. ७.१०१.१

*यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे। स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥ -ऋ. ७.१०१.२

*मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥ -ऋ. ७.१०१.५

*यो गर्भमोषधीनां गवां कृणोत्यर्वताम्। पर्जन्यः पुरुषीणाम् ॥ -ऋ. ७.१०२.२

*यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम्। तेन माविष्टमश्विना ॥ -ऋ. ८.९.५

*आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः। -ऋ. ८.२७.२

*धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति। पुनर्यन् तरुणीरपि ॥ -ऋ. ८.४३.७

*अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे। गर्भे सञ्जायसे पुनः ॥। -ऋ. ८.४३.९

*निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत। -ऋ. ८.५९.२

*स नः पवस्व शं गवे शं जनाय शमर्वते ॥ शं राजन्नोषधीभ्यः ॥ -ऋ. ९.११.३

*पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः। पवस्व धिषणाभ्यः ॥ -ऋ. ९.५९.२

*आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः  । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ॥ -ऋ. ९.८४.३

*जरतीभिरोषधीभिः पर्णेभि शकुनानाम् ॥ कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥ -ऋ. ९.११२.२

*स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु। चित्रः शिशुः परि तमांस्यक्तून् प्र मातृभ्यो अधि कनिक्रदद्गा: ॥ -ऋ. १०.१.२

*सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा। अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥ -ऋ. १०.१६.३

*पयस्वतीरोषधयः पयस्वन्मामकं वचः। अपां पयस्वदित् पयस्तेन मा सह शुन्धत ॥ -ऋ. १०.१७.१४

*याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः। ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥ -ऋ. १०.३०.५

*ऐच्छाम त्वा बहुधा जातवेद प्रविष्टमग्ने अप्स्वोषधीषु। -ऋ. १०.५१.३

*प्रयाजान् मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषो दत्त भागम्। घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥ -ऋ. १०.५१.८

*यत् ते अपो यदोषधीर्मनो जगाम दूरकम्। तत् त आ वर्तयामसीह क्षयाय जीवसे ॥ -ऋ. १०.५८.७

*ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन् पृथिवीं पर्वताँ अपः। -ऋ. १०.६५.११

*द्यावापृथिवी जनयन्नभि व्रता ऽऽप ओषधीर्वनिनानि यज्ञिया। -ऋ. १०.६६.९

*आप ओषधीः प्रतिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥ -ऋ. १०.६६.१०

*पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥ -ऋ. १०.७३.९

*सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम्। सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥ -ऋ. १०.८५.३

*विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः। परैनान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ -ऋ. १०.८७.१८

*तस्य देवाः पृथिवी द्यौरुतापो ऽरणयन्नोषधीः सख्ये अस्य ॥ -ऋ. १०.८८.२

*तमू अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥(दे. सूर्य-वैश्वानरो अग्निः) -ऋ. १०.८८.१०

*अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः। अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥ -ऋ. १०.८९.१३

*यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये। -ऋ. १०.९१.५

*तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः। तमित् समानं वनिनश्च वीरुधो ऽन्तर्वतीश्च सुवते च विश्वहा॥ -ऋ. १०.९१.६

*या ओषधीः पूर्वा जाता देवेभ्यत्रियुगं पुरा। मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥ -ऋ. १०.९७.१ (तु. तै.सं.४.२.६.१-५)

*ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः। अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्व: ॥ -ऋ. १०.९७.३

*ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे। सनेयमश्वं गां वास आत्मानं तव पूरुष ॥ -ऋ. १०.९७.४

*अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता। गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ -ऋ. १०.९७.५

*यत्रौषधीः समग्मत राजानः समिताविव। विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ -ऋ.१०.९७.६

*अश्वावती सोमावतीमूर्जयन्तीमुदोजसम्। आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ -ऋ. १०.९७.७

*उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते। धनं सनिष्यन्तीनामात्मानं तव पूरुष। -ऋ. १०.९७.८

*अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमु:। ओषधीः प्राचुच्यवुर्यत् किं च तन्वो३ रपः ॥ -ऋ. १०.९७.१०

*यदिमा वाजयन्नहमोषधीर्हस्त आदधे। आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥। -ऋ. १०.९७.११

*यस्योषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः। ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥ -ऋ. १०.९७.१२

*अवपतन्तीरर्वन् दिव ओषधयस्परि। यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥ -ऋ. १०.९७.१७

*या ओषधीः सोमराज्ञीर्विष्ठिता पृथिवीमनु। बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ -ऋ. १०.९७.१९ (तु. ऐ.ब्रा.८.२७)

*ओषधयः सं वदन्ते सोमेन सह राज्ञा। यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसि ॥ -ऋ. १०.९७.२२

*त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः। उपस्तिरस्तु सो३स्माकं यो अस्मां अभिदासति ॥ -ऋ. १०.९७.२३

*ओषमित् पृथिवीमहं जङ्घनानीह वेह वा। कुवित्सोमस्यापामिति ॥ -ऋ. १०.११९.१०

*इमां नाम्योषधिं वीरुधं बलवत्तमाम्। यया सपत्नीं बाधते यया संविन्दते पतिम्। - - - -ऋ.१०.१४५.१

*मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम्। पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र  मृळ ॥(दे. गावः) -ऋ. १०.१६९.१

*अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः। -ऋ. १०.१८३.३

*नक्तंजातास्योषधे रामे कृष्णे असिक्नि च। इदं रजनि रजय किलासं पलितं च यत् ॥ - अथर्ववेद १.२३.१

*असितं ते प्रलयनमास्थानमसितं तव। असिक्न्यस्योषधे निरितो नाशया पृषत् ॥- अ.१.२३.३

*ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः। ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥ - अ.१.३०.३

*शं नो भवन्त्वप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्तु रक्षसाम्। -  अ.२.३.६

*शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः। - अ.२.१०.२

*नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि। प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ सुपर्णस्त्वान्वविन्दत् सूकरस्त्वाखनन्नसा। प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे। इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे। प्राशं ०। पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे। प्राशं ० ॥ तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकां इव। प्राशं ० ॥ रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। प्राशं प्रतिप्राशो ० ॥ अ.२.२७.१-६

*यदन्तरं तद् बाह्यं यद्बाह्यं तदन्तरम्। कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥ - अ.२.३०.४

*ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्वन्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥ - अ.२.३१.५

*आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥ - अ.२.३६.१

*आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः। त्वमस्यै धेह्योषधे ॥ - अ.२.३६.८

*आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान्। ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वत्वप्रयावन् ॥ - अ.३.५.१

*शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥ - अ.३.१७.५

*इमां खनाम्योषधिं वीरुधां बलवत्तमाम्। यया सपत्नीं बाधते यया संविन्दते पतिम् ॥ - अ.३.१८.१

*ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु। य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥ - अ.३.२१.१

*यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव। तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥ -अ.३.२३.६

*पयस्वतीरोषधयः पयस्वन्मामकं वचः। अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥ - अ.३.२४.१

*ये३स्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥ - अ.३.२६.५

*उदायुषा समायुषोदोषधीनां रसेन। व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा। - अ.३.३१.१०

*यां त्वा गन्धर्वो अखनद् वरुणाय मृतभ्रजे। तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥ - अ.४.४.१

*यथा स्म ते विरोहतोऽभितप्तमिवानति। ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः॥ उच्छुष्मौषधीनां सार ऋषभाणाम्। सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन्॥ - अ.४.४.३-४

*वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे। वध्रि: स पर्वतो गिरिर्यतो जातमिदं विषम् ॥ - अ.४.६.८

*पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत। प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥ - अ.४.७.६

*लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम्। असृक् ते अस्थि रोहतु च्छिन्नं सं धेह्योषधे ॥ - अ.४.१२.५

*समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग् जायन्तामोषधयो विश्वरूपाः ॥ - अ४.१५.२

*अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव। स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥ -अ.४.१५.१०

*तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥ - अ.४.१५.१६

*अपामार्ग ओषधीनां सर्वासामेक इद् वशी। तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥ - अ.४.१७.८

*अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्। यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु॥ - अ.४.१८.५

*ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन। सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥ अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन्। उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥ यददो देवा असुरांस्त्वयाग्रे निरकुर्वत। ततस्त्वमध्योषधेऽपामार्गो अजानथाः ॥ - अ.४.१९.२-४

*आ पश्यति प्रति पश्यति परा पश्यति पश्यति। दिवमन्तरिक्षमाद् भूमिं सर्वं तद् देवि पश्यति ॥ तिस्रो दिवस्तिस्रः पृथिवीः षट् चेमाः प्रदिशः पृथक्। त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥ दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका। सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥ - अ.४.२०.१-३

*तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्। तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥ आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः। अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥ दर्शय मा यातुधानान् दर्शय यातुधान्यः। पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥ कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्या:। वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥ - - - -अ.४.२०.४-६

*अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवामोषधीनां पशूनाम् ॥ - अ.४.२२.४

*येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन्। येन देवा स्वराभरन्त्स नो मुञ्चन्त्वंहसः ॥ - अ.४.२३.६

*उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु। पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥ पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥ - अ.४.२७.२-३

*त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे। त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥ त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥ - - - - -एयमगन्नोषधीनां वीरुधां वीर्यावती। अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥ - अ.४.३७.१-६

*अवकादानभिशोचानप्सु ज्योतय मामकान्। पिशाचान्त्सर्वानोषधे प्र मृणीहि सहस्व च। - अ.४.३७.१०

*सुपर्णस्त्वान्वविन्दत् सूकरस्त्वाखन्नसा। दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥ अव जहि यातुधानानव कृत्याकृतं जहि। अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥ - अ.५.१४.१-२

* एका च मे दश च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला कर ॥ द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे। ऋतजात ० ॥ तिस्रश्चच मे त्रिंशच्च मे ऽपवक्तार ओषधे। ऋतजात० ॥ - - - - - -अ.५.१५.१

*गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्। गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥ - अ.५.२५.७

*उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः। उपस्तिरस्तु सो३स्माकं यो अस्माँ अभिदासति। सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥ यथा सोम ओषधीनामुत्तमो हविषां कृतः। तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥ -अ.६.१५.१-३

*नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते। नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥ - अ.६.२०.२

*पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः। ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥ - अ.६.२२.२

*देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः। शं नो भवन्त्वप ओषधीः शिवाः ॥ - अ.६.२३.३

*यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः। एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥ - अ.६.५८.२

*शर्म यच्छत्वोषधिः सह देवीररुन्धती। करत् पयस्वन्तं गोष्ठमयक्ष्माf उत पूरुषान् ॥ -अ.६.५९.२

*गर्भो अस्योषधीनां गर्भो हिमवतामुत। गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥ -अ.६.९५.३

*या ओषधयः सोमराज्ञीर्बह्वी: शतविचक्षणाः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ -अ.६.९६.१

*विद्रधस्य बलासस्य लोहितस्य वनस्पते। विसल्पकस्योषधे मोच्छिषः पिशितं चन ॥ - अ.६.१२७.१

*देवी देव्यामधि जाता पृथिव्यामस्योषधे। तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥ - अ.६.१३६.१

*दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे। केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥ - अ.६.१३७.३

*त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे। इमं मे अद्य पूरुषं क्लीबमोपशिनं कृधि ॥ -अ.६.१३८.१

*यदि वासि तिरोजनं यदि वा नद्यस्तिरः। इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत् ॥ - अ.७.३९.५

*दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम्। अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति। - अ.७.४०.१

*उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियाया। वि नाकमख्यत् सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥ - अ.७.७७.६

*यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्त्वस्यै ॥ -अ.७.९२.१

*उत् त्वा द्यौरुत् पृथिव्युत् प्रजापतिरग्रभीत्। उत् त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥ - अ.८.१.१७

*जीवलां नघारिषां जीवन्तीमोषधीमहम्। त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥ -अ.८.२.६

*शिवास्ते सन्त्वोषधय उत् त्वाहार्षमधरस्या उत्तरां पृथिवीमभि। तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥ -अ.८.२.१५

*शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि। वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः॥ - अ.८.२.२२

*विषं गवां यातुधाना भरन्तामावृश्चन्तामदितये दुरेवाः। परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥ -अ.८.३.१६

*उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्र|: श्वपदामिव। यमैच्छामाविदाम तं प्रतिस्पाशनमन्तितम् ॥ -अ.८.५.११

*यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥ - अ.८.६.९

*कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः। तानोषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥ - अ.८.६.१०

*या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः।असिक्नी: कृष्णा ओषधीः सर्वा अच्छावदामसि ॥ - अ.८.७.१

*आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन्। प्रस्तृणती स्तम्बिनीरेकशुङ्गा प्रतन्वतीरोषधीरा वदामि। अंशुमती: काण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥ - अ.८.७.४

*जीवलां नघारिषां जीवन्तीमोषधीमहम्। अरुन्धतीमुद्रायन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥ -अ.८.७.६

*अवकोल्बा उदकात्मान ओषधयः। व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्य: ॥ -अ.८.७.९

*उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः। अथो बलासनाशनी कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः॥ - अ.८.७.१०

*यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः। ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥ - अ.८.७.१३

*मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि। भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥ - अ.८.७.१६

*या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वती शिवा ओषधीः सन्तु शं हृदे ॥ - अ.८.७.१७

*सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम। यथेमं पारयामसि पुरुषं दुरितादधि॥ - अ.८.७.१९

*उज्जिहीध्वे स्तनयत्यभि क्रन्दत्योषधीः। यदा वः पृश्निमातरः पर्जन्यो रेतसावति॥ -अ.८.७.२१

*याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः। वयांसि हंसा या विदुर्याश्च सर्वे पतत्रिणः। मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे॥ - अ.८.७.२४

*यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यावतीनामजावयः। तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥ -अ.८.७.२५

*वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः।  द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥ - अ.८.८.१४

*अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा। अपो मनुष्यानोषधीस्ताँ उ पञ्चानु सेचिरे ॥ - अ.८.९.२३

*ओषधीरेव रथन्तरेण देवा अदुह्रन् व्यचो बृहता। अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥ ओषधीरेवास्मै रथन्तरं दुहे व्यचो बृहत्। अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य एवं वेद ॥ -अ.८.११.७

*देवानां भाग उपनाह एषो३पां रस ओषधीनां घृतस्य। सोमस्य भक्षमवृणीत शक्रो बृहन्नद्रिरभवद् यच्छरीरम् ॥ -अ.९.४.५

*भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः। पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥ - अ.९.४.१३

*विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम्। - अ.९.१२.१५

*अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्। यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥ - अ.१०.१.४

*यत् ते पितृभ्यो ददतोv यज्ञे वा नाम जगृहुः। संदेश्या३त् सर्वस्मात् पापादिमा मुञ्चन्तु त्वौषधीः ॥ - अ.१०.१.११

*ओषधीनामहं वृण उर्वरीरिव साधुया। नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥ यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्। कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥ ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः। येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥ - अ.१०.४.२१-२३

*विष्णोः क्रमोऽसि सपत्नहौषधीसंशितः सोमतेजाः। ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो यो३स्मान् द्वेष्टि यं वयं द्विष्मः। स मा जीवीत् तं प्राणो जहातु ॥ - अ.१०.५.३२

*यत् प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः। प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते। यत् प्राण ऋतावागतेऽभिक्रन्दत्योषधीः। सर्वं तदा प्र मोदते यत् किं च भूम्यामधि। - - - - अभिवृष्टा ओषधयः प्राणेन समवादिरन्। आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥ - अ.११.६.३-६

*आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत। ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥ यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम्। ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः। - अ.११.६.१६-१७

*आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः। जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥ - अ.११.७.१४

*ओषधयो भूतभव्यमहोरात्रे वनस्पतिः। संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिणः ॥ -अ.११.७.२०

*अग्निं ब्रूमो वनस्पतीनोषधीरुत वीरुधः। इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥ -अ.११.८.१

*शर्करा सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥ - अ.११.९.२१

*वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः। गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन्। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ - अ.११.११.२४

*नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥। - अ.१२.१.२

*विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्। शिवां स्योनामनु चरेम विश्वहा ॥ - अ.१२.१.१७

*अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु। अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥ - अ.१२.१.१९

*यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः। यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥ - अ.१२.१.२३

*मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥ - अ.१२.१.५७

*संख्याता स्तोका पृथिवीं सचन्ते प्राणापानै: संमिता ओषधीभिः। असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥ - अ.१२.३.२८

*प्र यच्छ पर्शु त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन्। यासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥ - अ.१२.३.३१

*समग्नयो विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्। यावन्तो देवा दिव्या३तपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥ - अ.१२.३.५०

*ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः। एतं परि दद्मस्तं नो गोपायतास्माकमैतोः। - - - अ.१२.३.५९

*वैश्वदेवी ह्यु१च्यसे कृत्या कूल्बजमावृता। ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥ - अ.१२.१०.८

*अग्निरेनं क्रव्यात् पृथिव्या नुदतोमुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः। सूर्य एनं दिवः प्र णुदतां न्योषतु ॥ -अ.१२.५.७२

*उद् वाज आ गन् यो अप्स्व१न्तर्विश आरोह त्वद्योनयो याः। सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥ - अ.१३.१.२

*यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥ - अ.१३.७.१५

*सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम्। सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥ -अ.१४.१.३

*या ओषधयो या नद्यो३ यानि क्षेत्राणि या वना। तास्त्वा वधु प्रजावती पत्ये रक्षन्तु रक्षसः ॥ - अ.१४.२.७

*सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम्। सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥ - अ.१४.२.७०

*स ध्रुवां दिशमनु व्यचलत्। तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन्। - -- - - - -अ.१५.६.१

*स यत् पशूननु व्यचलद् रुद्रो भूत्वानुव्यचलदोषधीरन्नादी कृत्वा। ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥ -अ.१५.१४.११

*आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि। - अ.१८.१.१७

*सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः। अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः ॥ - अ.१८.२.७

*पयस्वतीरोषधयः पयस्वन्मामकं पयः। अपां पयसो यत् पयस्तेन मा सह शुम्भतु ॥ - अ.१८.३.५६

*दिवस्पृथिव्याः पर्यन्तरिक्षाद् वनस्पतिभ्यो अध्योषधीभ्यः। यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि। यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः। अग्ने सर्वास्तन्व१: सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥ - अ.१९.३.१-२

*शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः। अ.१९.९.१

*पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः। - अ.१९.९.१४

*शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥ -अ.१९.१०.५

*आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि। - अ.१९.१७.६

*सोम ओषधीभिरुदक्रामत् तां पुरं प्र णयामि वः। तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ - अ.१९.१९.५

*सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः। माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥ - अ.१९.२७.२

*ओष दर्भ सपत्नान् मे ओष मे पृतनायतः। ओष मे सर्वान् दुर्हार्द ओष मे द्विषतो मणे ॥ - अ.१९.२९.७

*पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात् ॥ - अ.१९.३१.५

*न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः। विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः। अ.१९.३४.७

* शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः। दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥ - अ.१९.३२.१

*दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः। त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे। - अ.१९.३२.३

*सपत्नहा शतकाण्ड: सहस्वानोषधीनां प्रथमः सं बभूव। स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥ - अ.१९.३२.१०

*ओष॑धयो ब॒र्हिषा॑(सहागच्छन्तु) तै.आ. ३.८.१

*उग्र इत् ते वनस्पत इन्द्र ओज्मानमादधौ। अमीवा सर्वाश्चातयं जहि रक्षांस्योषधे ॥ - अ.१९.३४.९

*उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्र|: श्वपदामिव। नद्यायं पुरुषो रिषत्। यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥ - अ.१९.३९.४

*देवाञ्जन त्रैककुदं परि मा पाहि विश्वतः। न त्वा तरन्त्योषधयो बाह्याः पर्वतीयो उत ॥ -अ.१९.४४.६

*इन्द्र ओषधीरसनोदहानि वनस्पतीfरसनोदन्तरिक्षम्। बिभेद वलं नुनुदे विवाचोऽथाभवद् दमिताभिक्रतूनाम् ॥ -अ.२०.११.१०

*यदप्सु यद्वनस्पतौw यदोषधीषु पुरुदंससा कृतम्। तेन माविष्टमश्विना ॥ - अ.२०.१३९.५

*मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम्। क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥ -अ.२०.१४.३८

*दर्शपूर्णमास व्रतोपायनम् :- स वा आरण्यमेवाश्नीयात्। या वा आरण्या ओषधयः, यद्वा वृक्ष्यम्। - - -शतपथ ब्राह्मण १.१.१.१०

*अथान्तर्वेद्युपविशति। - - - ता आनयति ताः पवित्राभ्यां प्रतिगृह्णाति - समाप ओषधीभिः इति। सं ह्येतदाप ओषधिभिरेताभिः पिष्टाभिः सङ्गच्छन्ते। समोषधयो रसेन इति। सं ह्येतदोषधयो रसेनैता पिष्टा अद्भिः सङ्गच्छन्ते। आपो ह्येतासां रसः। सं रेवतीर्जगतीभिः पृच्यन्ताम्। इति। रेवत्य आपः, जगत्य ओषधयः, ता उ ह्येतदुभय्य सम्पृच्यन्ते ॥ - मा.श.१.२.२.२

*वेदिकाकरणम् :- अथ तृणमन्तर्धाय प्रहरति । नेदनेन वज्रेण संशितेन पृथिवीं हिनसानीति तस्मात्तृणमन्तर्धाय प्रहरतिस प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषम् इति। उत्तरमूलामिव वा एनामेतत्करोत्याददानः। तामेतदाह - ओषधीनां ते मूलानि मा हिंसिषमिति। - मा.श.१.२.४.१६

*द्रव्यसंस्काराः।  पत्न्या योक्त्रेण सन्नहन :- स वा अभिवासः सन्नह्यति। ओषधयो वै वासः, वरुण्या रज्जु:। तदोषधीरेवैतदन्तर्दधाति। तथो हैनामेषा वरुण्या रज्जुर्न हिनस्ति। - मा.श.१.३.१.१४

*दर्शोपचारः :- स (चन्द्रमा) यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे, तदिमं लोकमागच्छति। स इहैवापश्चौषधीश्च प्रविशति। - मा.श.१.६.४.५

*दर्शोपचारः :-  तं (सोमं) गोभिरनु विष्ठाप्य समभरन्। यदोषधीराश्नन् - तदोषधिभ्यः। यदपोऽपिबन् - तदद्भ्यः। - मा.श.१.६.४.६

*याजमानो विष्णुक्रमः :- स एष देवयानो वा पितृयाणो वा पन्थाः। तदुभयतोऽग्निशिखे समोषन्त्यौ तिष्ठतः। प्रति तमोषतो  यः प्रत्युष्यः, अत्यु त सृजेते योऽतिसृज्यः। - मा.श.१.९.३.२

*पुनराधानम् :-तत एतत् त्वष्टा पुनराधेयं ददर्श।- - -सोऽस्मा उभयानि रूपाणि प्रतिनिःससर्ज - यानि च ग्राम्याणि, यानि चारण्यानि। - मा.श.२.२.३.४

*अग्निहोत्रम् :- पशवो मूलाः, ओषधयो मूलिन्यः, ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वाऽपः पीत्वा तत एष रसः सम्भवति। - मा.श.२.३.१.१०

*दीक्षासंस्काराः केशवपनम् :- अथ दर्भतरुणकमन्तर्दधाति - ओषधे त्रायस्व इति। वज्रो वै क्षुरः। तथो हैनमेष वज्रः क्षुरो न हिनस्ति। - मा.श.३.१.२.७

*प्रायणीयेष्टिः। प्रायणीय देवताविधिः :- ऊर्ध्वामेव दिशमदित्या प्राजानन्। इयं वा अदितिः। तस्मादस्यामूर्ध्वा ओषधयो जायन्ते। ऊर्ध्वा वनस्पतयः। - मा.श.३.२.३.१९

*प्रवर्ग्य कर्मण्यवान्तरदीक्षा :- दिवि हि सोमः, वृत्रो वै सोम आसीत्। तस्यैतच्छरीरम् - यद्गिरयो, यदश्मानः। तदेषोऽशाना नामौषधिर्जायते - इति ह स्माह श्वेतकेतुरौद्दालकिः। तामेतदाहृत्याभिषुण्वन्ति। - मा.श.३.४.३.१३

*औदुम्बरी :- अथ यवमत्यः प्रोक्षण्यो भवन्ति। आपो ह वा ओषधीनां रसः। तस्मादोषधयः केवल्यः खादिता  न धिन्वन्ति। औषधय उ हा अपां रसः। तस्मादापः पीताः केवल्यो न धिन्वन्ति। -मा.श.३.६.१.७

* औदुम्बरी :- पितृदेवत्यं वाऽअस्या एतद्भवति। यन्निखातम्। सा यथा निखातौषधिषु मिता स्यात्  एवमेतास्वोषधिषु मिता भवति। तामुच्छ्रयति - - - मा.श.३.६.१.१४

*पशु नियोजन प्रकारः :- स प्रोक्षति। अद्भ्यस्त्वौषधीभ्यः इति। तद् यत एव सम्भवति - तत एवैतन्मेध्यं करोति। इदं हि यदा वर्षति - अथौषधयो जायन्ते। औषधीर्जग्ध्वा, अपः पीत्वा, तत एष रसः सम्भवति। रसाद्रेतः - मा.श.३.७.४.४

*सुत्यादिवसे प्रातकालीनं पश्वर्थं प्रयोगः :-  समापोऽअद्भिरग्मत। समोषधीभिरोषधीः इति। यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो, यश्चाद्याहृतः - तमेवैतदुभयं संसृजति। - मा.श.३.९.३.२९

*आग्रयण ग्रहः :- अद्भ्य ओषधीभ्यः पवते इति। तदद्भ्यश्चौषधिभ्यश्चाह। -श.४.२.२.१५

* विप्रुड् होमः :- दिवि हि सोमः। वृत्रो वै सोम आसीत्। तस्यैतच्छरीरं यद्गिरयो, यदश्मानः। तदेषोशानानामौषधिर्जायते इत ह स्माह श्वेतकेतुरौद्दालकिः। तामेतदाहृत्याभिषुण्वन्तीति। - श.४.२.५.१५

*अवभृथ स्नानम्, ऋजीषम् :- सन्त्वा विशन्त्वोषधीरुतापः इति। तदस्मिन्नुभयं रसं दधाति - यश्चौषधिषु, यश्चाप्सु। - मा.श.४.४.५.२०

*यूपारोहणम् :- गौधूमं चषालं भवति। पुरुषो वै प्रजापतेर्नेदिष्ठम्। सोऽयमत्वक्। एते वै पुरुषस्योषधीनां नेदिष्ठतमां  यद्गोधूमाः। तेषां न त्वगस्ति। मनुष्यलोकमेवैतेनोज्जयति। - मा.श.५.२.१.६

*वाजप्रसवीय होमं :- स जुहोति - वाजस्येमं प्रसवः सुषुवेऽग्रे सोमं राजानमोषधीष्वप्सु। ता अस्मभ्यं मधुमतीर्भवन्तु। - मा.श.५.२.२.५

*राजसूय यज्ञः :- तस्मादाग्रयणेष्ट्या यजते। ओषधीर्वाऽएष सूयमानोऽभिसूयते। तदोषधीरेवैतदनमीवा अकिल्बिषाः कुरुते। अनमीवा अकिल्बिषा ओषधीरभिसूयाऽइति। तस्य गौर्दक्षिणा। - मा.श.५.२.३.९

*दीक्षणीय यागाः :- अथ सोमाय वनस्पतये श्यामाकं चरुं निर्वपति। तदेनं सोम एव वनस्पतिरोषधिभ्यः सुवति। अथ यच्छ्यामाको भवति। एते वै सोमस्योषधीनां प्रत्यक्षतमाम् - यच्छ्यामाकाः। - मा.श.५.३.३.४

*अथ यद्धायनानां भवति। अतिष्ठा वाऽएता ओषधयो  यद्धायनाः। अतिष्ठो वाऽइन्द्रः। - मा.श.५.३.३.६

*वरुण्या वाऽएता ओषधयो याः कृष्टे जायन्ते अथैते मैत्राः - यन्नाम्बा:। - मा.श.५.३.३.८

*अग्निचित्या ब्राह्मणम् :- स (प्रजापतिः) श्रान्तस्तेपानो मृदम्, शुष्कापमूषसिकतम्, शर्कराम्, अश्मानम्, अयः, हिरण्यम्, ओषधिवनस्पति असृजत। तेनेमां पृथिवीं प्राच्छादयत्। - मा.श.६.१.१.१३

*प्रजापतेश्चित्याग्निरूपता :- अथोऽआहुः - प्रजापतिरेवेमाँल्लोकान्त्सृष्ट्वा पृथिव्यां प्रत्यतिष्ठत्। तस्माऽइमा ओषधयोऽन्नमपच्यन्त। तदाश्नात्। स गर्भ्यभवत्~। - - मा.श.६.१.२.११

*अष्टौ रूपाणि चयनोपयुक्तानि ; कुमारोत्पत्तिः :-  तमब्रवीत् - पशुपतिरसीति। तद्यदस्य तन्नामाकरोत् -  ओषधयस्तद्रूपमभवन्। ओषधयो वै पशुपतिः। तस्माद्यदा पशव ओषधीर्लभन्ते - अथ पतीयन्ति। - मा.श.६.१.३.१२

*पश्वभिमन्त्रणम् :- सोऽश्वमभिमन्त्रयते - - - -तयोरेष जातो गर्भः। अग्ने चारुर्विभृत ओषधीषु इति। सर्वासु ह्येष चारुर्विभृत ओषधिषु। - - - प्र मातृभ्यो अधि कनिक्रदद्गा: इति। ओषधयो वाऽएतस्य मातरः। ताभ्य एष कनिक्रदत्प्रैति। तदश्वे वीर्यं दधाति। - मा.श.६.४.४.२

*उखासम्भरणे पश्वभिमन्त्रणविधानं :- अथैनमुपावहरति। ओषधयः प्रतिमोदध्वमग्निमेतं शिवमायन्तमभ्यत्र युष्माः इति। एतद्धैतस्मादायत ओषधयो बिभ्यति यद्वै नोऽयं न हिंस्यादिति। - मा.श.६.४.४.१६

*ओषधयः प्रतिगृभ्णीत पुष्पवतीः सुपिप्पलाः इति। एतद्धैतासां समृद्धं रूपम् - यत् पुष्पवत्यः सुपिप्पलाः। समृद्धा एनं प्रतिगृभ्णीतेत्येतत्। अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थमासदत् इति। - मा.श.६.४.४.१७

* उखासम्भरणे अवटखननं :-अथोखामवदधाति। देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वद्दधतूखे इति। देवानां हैतामग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधुः - ताभिरेवैनामेतद्दधाति। ता ह ता ओषधय एव। ओषधयो वै देवानां पत्न्यः। ओषधिभिर्हीदं सर्वं हितम्। ओषधिभिरेवैनामेतद्दधाति। - मा.श.६.५.४.४

*अषाढाख्येष्टका :- अजायै पयसाऽऽच्छृणत्ति। - - - - - अजा ह सर्वा ओषधीरत्ति। सर्वासामेवैनामेतदोषधीनां रसेनाऽऽच्छृणत्ति। - मा.श.६.५.४.१६

*गार्हपत्याग्निचयनम् :- अग्ने यत्ते दिवि वर्चः इति। आदित्यो वाऽअस्य दिवि वर्चः। पृथिव्याम् इति। अयमग्निः पृथिव्याम्। यदोषधीष्वप्स्वा यजत्र इति। य एवौषधिषु चाप्सु चाग्निस्तमेतदाह। - मा.श.७.१.१.२३

*प्रायणीयेष्टिः :- अथ पूर्वार्धेन दक्षिणाम् सीतां कृषति कामं कामदुघे धुक्ष्व मित्राय वरुणाय च। इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्यः इति। सर्वदेवत्या वै कृषिः। - मा.श.७.२.२.१२

*दर्भस्तम्बोपधानम्। एतद्वै देवा ओषधीरुपादधत। तथैवैतद्यजमान ओषधीरुपधत्ते।- - - - -उभयम्वेतदन्नम्। यद्दर्भाः - आपश्च ह्येता ओषधयश्च। या वै वृत्राद्बीभत्समाना आपो धन्व दृभन्त्य उदायन् - ते दर्भा अभवन्। - - -ता ह्येता शुद्धा मेध्या आपोऽवृत्राभिप्रक्षरिताः - यद्दर्भाः। यदु दर्भाः - तेनौषधयः। उभयेनैवैनमेतदन्नेन प्रीणाति। - मा.श.७.२.३.१

*अथैनमभिजुहोति (दर्भस्तम्बम् अभिजुहोति)। - - -सर्वस्योऽअस्यैष रसो यदाज्यम्। अपां च ह्येष ओषधीनां च रसः। अस्यैवैनमेतत्सर्वस्य रसेन प्रीणाति। यावानु वै रसस्तावानात्मा। - मा.श.७.२.३.४

*अथ सर्वौषधं वपति - एतद्वै देवा अब्रुवन् - चेतयध्वमिति। - - - - सर्वौषधं भवति। सर्वमेतदन्नम् - यत्सर्वौषधम्। सर्वमेवास्मिन्नेतदन्नं दधाति। - मा.श.७.२.४.१३

*यद्वेव सर्वौषधं वपति। एतद्वाऽएनं देवा संस्करिष्यन्त पुरस्तात्सर्वेण भेषजेनाभिषज्यन्। - - - सर्वौषधं भवति। सर्वमेतद्भेषजम् - यत्सर्वौषधम्। सर्वेणैवैनमेतद्भेषजेन भिषज्यति। - मा.श.७.२.४.१९

*अपां निनयनं सर्वौषधवपनं च :- या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा इति। ऋतवो वै देवाः। तेभ्य एतास्त्रिः पुरा जायन्ते - वसन्ता प्रावृषि शरदि। - - - - -मनै नु बभ्रूणामहम् इति। सोमो वै बभ्रुः, सौम्या ओषधयः, औषधः पुरुषः - मा.श.७.२.४.२६

*पञ्चप्राणभृदिष्टकोपधानम् :- यद्वेवापस्या उपदधाति। एष्वेवैतत्प्राणेष्वपो दधाति। - - -अपः पिन्व, ओषधीर्जिन्व, द्विपादव, चतुष्पात्पाहि, दिवो वृष्टिमेरय इति। - मा.श.८.२.३.६

*राष्ट्रभृद्धोमः :- ऋताषाडतृधामा इति।-- अग्निर्गन्धर्वस्तस्योषधयोऽप्सरसः इति। अग्निर्ह गन्धर्वः - ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम। मुदो नाम इति। ओषधयो वै मुदः। ओषधिभिर्हीदं सर्वं मोदते।। मा.श.९.४.१.७

*तदेतद् वसु चित्रं राधः। तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजति - अप्योषधिभ्यः, अपि वनस्पतिभ्यः। - मा.श.१०.२.६.५

*चंद्रमा वै सोमो देवानामन्नम्। तं पौर्णमास्यामभिषुण्वंति। सोऽपरपक्षेऽपऽओषधीः प्रविशति। पशवो वा अप ओषधीरदंति। तदेनमेतां रात्रिं पशुभ्यः सन्नयति। - मा.श.११.१.५.३

*व्रतोपायनम् :- स यदि ग्राम्या ओषधीरश्नाति, पुरोडाशस्य मेधमश्नाति। यद्यारण्या ओषधीरश्नाति, बर्हिषो मेधमश्नाति। यदि वानस्पत्यमश्नाति, इध्मस्य मेधमश्नाति। - - - - मा.श.११.१.७.२

*अग्निहोत्रम् :- यत्स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्, ओषधिवनस्पतींस्तेनाप्रैषम्। - मा.श.११.५.३.७

*उपनयनधर्माभिधायकं ब्राह्मणम् :- तदाहुः - न ब्रह्मचारी सन्मध्वश्नीयात्। ओषधीनां वा एष परमो रसो यन्मधु। नेदन्नाद्यस्यान्तं गच्छानीति। - मा.श.११.५.४.१८

*स होवाच। यान्वै तत्प्राच्यां दिश्यद्राक्षीः पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति वनस्पतयो वै ते अभूवन्त्स यद्वनस्पतीनां समिधमादधाति तेन वनस्पतीनवरुन्द्धे तेन वनस्पतीनां लोकं जयति - - - - अथ यानेतत् प्रतीच्यां दिश्यद्राक्षी:, पुरुषै: पुरुषान् तूष्णींमासीनान् तूष्णींमासीनैरद्यमानान्, ओषधयो वै ता अभूवन्। स यत् तृणेनावज्योतयति। तेनौषधीरवरुन्धे। तेनौषधीनां लोकं जयति। - मा.श.११.६..१०

*ते (आहुतीः) इमामाविशतः। ते इमामेवाहवनीयं कुर्वाते। अग्निं समिधम्। ओषधीरेव शुक्रामाहुतिम्। ते इमां तर्पयतः। ते तत उत्क्रामत:। - मा.श.११.६.२.८

*गवामयनब्राह्मणम् :- अथ ब्रह्माणं दीक्षयति। चन्द्रमा वै ब्रह्मा। सोमो वै चन्द्रमा। सौम्या ओषधयः। ओषधीस्तदनेन लोकेन संदधाति। - - - -स यद्धैतावन्तरेणान्यो दीक्षेत। ओषधीस्तदनेन लोकेन नाना कुर्यात्। -मा.श.१२.१.१.२

*अथोद्गातारं दीक्षयति। पर्जन्यो वा उद्गाता। - - - - वृष्टिं तदोषधिभिः संदधाति। - - - - -स यद्धैतावंतरेणान्यो दीक्षेत। वृष्टिं तदोषधिभिर्नाना कुर्यात्। अवर्षुको ह स्यात्। - मा.श.१२.१.१.३

*अध्यात्मविद्ब्राह्मणम् :- नखान्येवौषधिवनस्पतीनां रूपम्। ऊरू चतुर्विंशमहः। - मा.श.१२.१.४.१

*अथ याज्या गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्। गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि। - मा.श.१२.४.४.४

*सौत्रामणी। पयोग्रहाश्च सुराग्रहाश्च :- स जुहोति - यस्ते रसः संभृत ओषधीषु इति। अपां च वा एष ओषधीनां च रसः। यत्सुरा। अपां चैवैनमेतदोषधीनां च रसेन समर्धयति। - मा.श.१२.८.१.४

*सर्वमेधः :- संव्रश्चमोषधिवनस्पतीनां प्रकिरंति - शुष्काणां चार्द्राणां च। - मा.श.१३.७.१.९

*स आदित्य वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्। - जैमिनीय ब्राह्मण १.७

*अथ यत् तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति ॥ - जै.ब्रा.१.७

*यद् अन्यद् धान्यं न स्यात् केन जुहुया इति। आरण्याभिर् ओषधीभिर् इति। यद् आरण्या ओषधयो न स्युः केन जुहुया इति। अद्भिर् इति। - जै.ब्रा.१.१९

*तस्यानुहाय रेत आदत्त। तद् गर्दभे न्यमार्ट् तद् बडवायां तत् पशुषु तद् ओषधीषु। - - - -तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति। - जै.ब्रा.१.६७

*घृतेन द्यावापृथिवी आ प्रीणीथाम्। सुपिप्पला ओषधीः कृधि स्वाहा इत्य् औदुम्बरीम् अभिजुहोति। इमान् एवैतल् लोकान् रसेनानक्ति। - जै.ब्रा.१.७२

*राजानम् आनयति। तम् अभिमन्त्रयते - - - स नः पवस्व शं गवे शं जनाय शम् अर्वते। शं राजन्न् ओषधीभ्यः। इति। - जै.ब्रा.१.८१

*यदि तं (पर्णम्) न विन्देयुर् या एव काश् चौषधीर् अभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आहरन् समभिनत् तस्य वा विप्रुषो अपतस् ता एवेमा ओषधयो ऽभवन्। सर्वा उ ह वै सौम्या ओषधयः। स एवास्य संन्यङ्गः। - जै.ब्रा.१.३५५

*तम् उ तं सोमम् एव प्रत्यक्षं भक्षयन्ति यत् पयः। ओषधीनां हि स रसः। - जै.ब्रा.१.३५५

*स यथा सामि गर्भा पतेयुर् यथा वामा ओषधीर् लिलियुस् ताः किंदिता स्युश् शुष्येयुर् एवैवं तद् यन् मासि - मासि पृष्ठान्य् उपयन्ति। - जै.ब्रा.२.२

*स (चन्द्रमाः) इमा अप ओषधीः प्रविशति। स इमा अप ओषधी प्रविश्यास्व~ अप्स्व् ओषधीष्व~ आत्मानं न्युद्यापूर्यमाणो ऽमुं लोकं गच्छति। - जै.ब्रा.२.३

*स (आदित्यः) वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम् - - -जै.ब्रा.२.२६

*यजमान द्वारा ऋत्विजों से स्वयं का निष्क्रीणन :- स यल् लोमानि ददात्य् - ओषधिवनस्पतयो वै लोमान्य् - ओषधिवनस्पतीन् एवैभ्यस् तद् ददाति। तद् यावद् ओषधि वनस्पतयो न क्षीयन्ते, तावद् अस्य तद् दत्तं न क्षीयते। - जै.ब्रा.२.५४

*यद् उ व्रतप्रदो ऽनुच्छिष्टाशी वा स्यात् परि वा शिंष्यात्, तद् अद्भिर् अभ्युक्ष्य छायायां निषेक्तवै ब्रूयात्। तद् ओषधीभिर् अभिसंछादयितवै ब्रूयात्। तद् ओषधीनां मूलान्य् उपसिञ्चति। - जै.ब्रा.२.६४

*स्वाशिरो वै नामाप्सरस इमा एवौषधयः। ता अकामयन्त बह्वी स्याम्, प्रजायेमहि, वीमं लोकम् आप्नुयामेति। ता एतत् सामापश्यन्। - - - - - सो ऽयं सर्वो लोक ओषधीभिस् संछन्नो ऽपि गिरयः। तद् एतत् प्रजननं साम। - जै.ब्रा.३.२२६

*ओषधीर् घृतस्तोको, वनस्पतीन् मधुस्तोकः जै.ब्रा. ३.३५०

*गवामयनशेषविधिः :- त्वामग्ने प्रदिव आहुतं घृतेन। सुम्नायवः सुषमिधा समीधिरे। स वावृधान ओषधीभिरुक्षितः। उरु ज्रयांसि पार्थिवा वितिष्ठसे। - तैत्तिरीय ब्राह्मण १.२.१. १२

*गवामयनशेषविधिः(क्लृप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते) :- - कल्पेतां द्यावापृथिवी। कल्पन्ताममाप ओषधीः। कल्पन्तामग्नयः पृथक्। मम ज्यैष्ठ्याय सव्रताः ॥ - तै.ब्रा.१.२.१.१८

*गवामयनशेषविधिः :- दिवः पृथिव्याः पर्यन्तरिक्षात्। वातात्पशुभ्यो अध्योषधीभ्यः। यत्र यत्र जातवेदः संबभूथ। ततो नो अग्ने जुषमाण एहि। - तै.ब्रा.१.२.१.२२

*वाजपेयविधिः :- सर्वा वा एतस्य वाचोऽवरुद्धाः। यो वाजपेययाजी। या पृथिव्यां याऽग्नौ या रथंतरे। याऽन्तरिक्षे या वायौ या वामदेव्ये। या दिवि याऽऽदित्ये या बृहति। याऽप्सु यौषधीषु या वनस्पतिषु। - तै.ब्रा.१.३.२.७

*वाजं वा एषोऽवरुरुत्सते। यो वाजपेयेन यजते। ओषधयः खलु वै वाजः। यद्दर्भमयं परिधापयति। वाजस्यावरुद्ध्यै। - तै.ब्रा.१.३.७.१

*राजसूये अनुमत्यादीष्टयः :- यावतीर्वै प्रजा ओषधीनामहुतानामाश्नन्। ताः पराभवन्। आग्रयणं भवति हुताद्याय। यजमानस्यापराभावाय। देवा वा ओषधीष्वाजिमयुः। ता इन्द्राग्नी उदजयताम्। तावेतमैन्द्राग्नं द्वादशकपालं निरवृणाताम्। - तै.ब्रा.१.६.१.९

*अग्निहोत्रविधिः :- अङ्गिरसो वै सत्रमासत। तेषां पृश्निर्घर्मधुगासीत्। सर्जीषेणाजीवत्। तेऽब्रुवन्। कस्मै नु सत्रमास्महे। येस्या ओषधीर्न जनयाम इति।ते दिवोवृष्टिमसृजन्त। यावन्तः स्तोका अवापद्यन्त। तावतीरोषधयोऽजायन्त। ता जाताः पितरो विषेणालिम्पन्। - - - - - - - - -तै.ब्रा.२.१.१.१

*तेभ्य (पितृभ्यः) एतद्भागधेयं प्रायच्छन्। यद्धुत्वा निमार्ष्टि। ततो वै त ओषधीरस्वदयन्। य एवं वेद। स्वदन्तेऽस्मा ओषधयः। तै.ब्रा.२.१.१.२

*किं देवत्यमग्निहोत्रमिति। - - - - - - यन्निमार्ष्टि। तदोषधीनाम्। यद्द्वितीयम्। तत्पितृणाम्। - तै.ब्रा.२.१.४.७

*अग्निहोत्रे सोमयागबुद्धिः :- - - - - -दिव्या आपः प्रोक्षणयः। ओषधयो बर्हिः। वनस्पतय इध्म: -- - - - तै.ब्रा.२.१.५.१

*यवाग्वा ग्रामकाम्यस्योषधा वै मनुष्याः। भागधेयेनैवास्मै सजातानवरुन्धे। ग्राम्येव भवति। - तै.ब्रा.२.१.५.६

*षड्ढोता वै भूत्वा प्रजापतिरिदँ सर्वमसृजत। - - - - यजुर्भ्योऽधि विष्णुम्। तद्विष्णुं यश आर्च्छत्। तमालभत। विष्णोरध्योषधीरसृजत। ओषधीभ्योऽधि सोमम्। - तै.ब्रा.२.३.२.४

*अग्निर्न्यवर्तयत। स साहस्रमपुष्यत्। पृथिवी न्यवर्तयत। सौषधीभिर्वनस्पतिभिरपुष्यत्। - - तै.ब्रा.२.३.३.२

*नक्तं जाताऽस्योषधे। रामे कृष्णे असिक्नि च ईं रजनि रजय। किलासं पलितं च यत्। - तै.ब्रा.२.४.४.१

*असितं ते निलयनम्। आस्थानमसितं तव। असिक्नियस्योषधे। निरितो नाशया पृषत्। - - - - - सरूपा नाम ते माता। सरूपो नाम ते पिता। सरूपाऽस्योषधे  सा। सरूपमिदं कृधि। - तै.ब्रा.२.४.४.२

*अच्छा वद तवसं गीर्भिराभिः। स्तुहि पर्जन्यं नमसा विवास। कनिक्रदद्वृषभो जीरदानुः। रेतो दधात्वोषधीषु गर्भम्।।यो गर्भमोषधीनाम्। गवां कृणोत्यर्वताम्। पर्जन्यः पुरुषीणाम्। तस्मा इदास्ये हविः। जुहोता मधुत्तमम्। इडां नः संयतं करत्। - तै.ब्रा.२.४.५.५

*विश्वा आशा मधुना संसृजामि। अनमीवा आप ओषधयो भवन्तु। अयं यजमानो मृधो व्यस्यताम्। अगृभीताः पशवः सन्तु सर्वे। - तै.ब्रा.२.५.३.३

*सोमो वा अकामयत। ओषधीनां राज्यमभिजयेयमिति। स एतं सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत्। ततो वै स ओषधीनां राज्यमभ्यजयत्। - तै.ब्रा.३.१.४.३

*ऋक्षा वा इयमलोमकाऽऽसीत्। साऽकामयत। ओषधीभिर्वनस्पतिभिः प्रजायेयेति। सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत्। ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत। - तै.ब्रा.३.१.४.५

*यो वा ओषधीः पर्वशो वेद। नैना स हिनस्ति। प्रजापतिर्वा ओषधीः पर्वशो वेद। स एना न हिनस्ति।। अश्वपर्श्वा बर्हिरच्छैति। - तै.ब्रा.३.२.२.१

*दर्शपूर्णमासः :- वर्षवृद्धमसीत्याह। वर्षवृद्धा वा ओषधयः। देव बर्हिरित्याह। देवेभ्य एवैनत्करोति। - - - - तै.ब्रा.३.२.२.५

*पवित्रवत्यानयति। अपां चैवौषधीनां च रसं संसृजति। अथो ओषधीष्वेव पशून्प्रतिष्ठापयति। - तै.ब्रा.३.२.३.६

*समापो अद्भिरग्मत समोषधयो रसेनेत्याह। आपो वा ओषधीर्जिन्वन्ति। ओषधयोऽपो जिन्वन्ति। - तै.ब्रा.३.२.८.१

*सं रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह। आपो वै रेवतीः। पशवो जगतीः। ओषधयो मधुमती:। आप ओषधीः पशून्। तानेवास्मा एकधा संसृज्य। मधुमत: करोति। - तै.ब्रा.३.२.८.२

*ओषध्यास्ते मूलं मा हिंसिषमित्याह। ओषधीनामहिंसायै। - तै.ब्रा.३.२.९.३

*ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहेत्योषधिहोमाञ्जुहोति। द्वय्यो वा ओषधयः। पुष्पेभ्योऽन्या फलं गृह्णन्ति। मूलेभ्योऽन्याः। ता एवोभयीरवरुन्धे। - तै.ब्रा.३.८.१७.४

*भक्षयित्वा प्राणनिवहानात्मन्प्रतिष्ठापयते ओषधिवनस्पतयो मे लोमसु श्रिताः। लोमानि हृदये। हृदयं मयि। अहममृते। अमृतं ब्रह्मणि। - तै.ब्रा.३.१०.८.७

*शिवा नः शंतमा भवन्तु। दिव्या आप ओषधयः (इति सौषध्योऽपोऽध्वर्यवे ददाति। स ताः प्रतिगृह्य शिवा न इत्युपदधाति)। - तैत्तिरीय आरण्यक १.१.३

*मयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे। सुपिप्पला ओषधीर्देवगोपाः। यो गर्भमोषधीनाम्। गवां कृणोत्यर्वताम्। पर्जन्यः पुरुषीणाम् ॥ - तै.आ.१.२९.१  

*ब्रह्मयज्ञः।हृदयस्पर्शनोत्तरभाविकर्तव्यं :- दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते। - तै.आ.२.११.१

*संभारयजूंषि - - -आपः प्रोक्षणीभिः। ओषधयो बर्हिषा। अदितिर्वेद्या। - - - तै.आ.३.८.१

*सुमित्रा न आप ओषधयः सन्तु। दुर्मित्रास्तस्मै भूयासुः। योऽस्मान्द्वेष्टि। यं च वयं द्विष्मः। (इति मार्जालीयदेश उच्छिष्टसरे मार्जयित्वा) - तै.आ.४.११.८

*ज्योतिर्भा असि वनस्पतीनामोषधीनां रस (इति महावीर आनयति) - तै.आ.४.१२.१

*सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः। - तै.आ. ४.४२.२१/४.४२.४

*- - -शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः - - - -तै.आ.४.४२.५

*सोऽस्मयत। एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति। तस्य सिष्मियाणस्य तेजोऽपाक्रामत्। तद्देवा ओषधीषु निमृजुः। ते श्यामाका अभवन्। स्मयाका वै नामैते। - तै.आ.५.१.३

*यत्पृथिव्यामुद्वासयेत्। पृथिवीं शुचाऽर्पयेत्। यदप्सु। अपः शुचाऽर्पयेत्। यदोषधीषु। ओषधीः शुचाऽर्पयेत्। - - - हिरण्यं निधायोद्वासयति। अमृतं वै हिरण्यम्। - तै.आ.५.९.५

*सुमित्रा न आप ओषधयः सन्त्वित्याह। आशिषमेवैतामाशास्ते। तै.आ.५.९.११

*सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा। अपो वा गच्छ यदि तत्र ते हितमोषधीषु  प्रतितिष्ठा शरीरैः। (इति षड्ढोतारं व्याचष्टे) - तै.आ.६.१.४

*प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते सुवः। इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसाऽवति।(इति उदपात्रेणोदुम्बरशाखया वोक्षति) - तैआ.६.६.४

*यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि। एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन (इति कुशतरुणकानि समुच्छ्रित्य दर्भस्तम्बे निदधाति)- तै.आ.६.१०.२

*यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यचसर्ज भूम्याम्। यदोषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि। - तै.आ.१०.१.२

*याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणा प्राणैर्बलं- - - -तै.आ.१०.६३

*पुरोडाशश्रपणम् :- सं वपामि समापो अद्भिरग्मत समोषधयो रसेन सं रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वम् - तैत्तिरीय संहिता १.१.८.१

*आज्यादिहविर्ग्रहणार्था मन्त्राः :- महीनां पयोऽस्योषधीनां रसस्तस्य तेऽक्षीयमाणस्य नि वपामि महीनां पयोऽस्योषधीनां रसोऽदब्धेन त्वा चक्षुषाऽवेक्षे (इति तस्यां पवित्रान्तर्हितायामाज्यं निरुप्य) - तै.सं.१.१.१०.२

*आध्वर्यवा स्रुग्व्यूहनादिमन्त्राः :- आप्यायन्तामाप ओषधयो मरुतां पृषतय स्थ दिवम् गच्छ ततो नो वृष्टिमेरय (इति तमुपरीव प्रहरति नात्यग्रं प्रहरति न पुरस्तात्प्रत्यस्यति न प्रतिशृणाति न विष्वञ्चं वियौत्यूर्ध्वमुद्यौति) - तै.सं.१.१.१३.१

*यजमानकर्तृकप्राग्वंशप्रवेशोपयुक्ता मन्त्राः :- आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः (इति ऊर्ध्वाग्रं बर्हिरनूच्छ्रयति) - तै.सं.१.२.१.१

*इन्द्राग्नी द्यावापृथिवी आप ओषधीस्त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहि (इति पूर्वया द्वारा शालां प्रपादयति) - तै.सं.१.२.१.२

*प्राचीनवंशप्रविष्टयजमानस्य दीक्षाङ्गभूता मन्त्राः :- कृष्यै त्वा सुसस्यायै सुपिप्पलाभ्यस्त्वौषधीभ्यः सूपस्था देवो वनस्पतिरूर्ध्वो मा पाहि (इत्यर्थे प्राप्ते शिरसि कण्डूयते) - तै.सं.१.२.२.३

*सोमस्य शकटारोपणम् :- उदायुषा स्वयुषोदोषधीनां रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु।(इति सोमम् आदायोपोत्तिष्ठति) - तै.सं.१.२.८.१

*अग्नीषोमपश्वभिधानाय पश्वङ्गयूपच्छेदनाभिधानम् :- - - - देवस्त्वा सविता मध्वाऽनक्त्वोषधे त्रायस्वैनं स्वधिते मैनं हिंसी (इति स्रुवेण सर्वतो मूलं पर्यणक्ति) - तै.सं.१.३.४.१

*छिन्नस्य यूपस्य स्थापनम् :- देवस्त्वा सविता मध्वाऽनक्तु सुपिप्पलाभ्यस्त्वौषधीभ्य उद्दिवं स्तभानाऽन्तरिक्षं पृण - -- - - -(इति प्रवृह्य चषालं यूपस्याग्रमनक्ति) - तै.सं.१.३.६.१

*उपाकृताग्नीषोमीयपशुविशसनाभिधानम् :- आ दद ऋतस्य त्वा देवहविः पाशेनाऽऽरभे धर्षा मानुषानद्भ्यस्त्वोषधीभ्यः प्रोक्षामि (इति सावित्रेण रशनामादाय - - - - प्रोक्षति) - तै.सं.१.३.८.१

*संज्ञपितस्य पशोर्वपोत्खेदनम् :- शुद्धाश्चरित्राः शमद्भ्यः शमोषधीभ्यः शं पृथिव्यै शमहोभ्यामोषधे त्रायस्वैनं स्वधिते मैनं हिंसी (इति उपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय) - - - -तै.सं.१.३.९.२

*वसाहोमः :- वातस्य त्वा ध्रज्यै पूण्णो रंह्या अपामोषधीनां रोहिष्यै (इति दक्षिणेन पार्श्वेन वसाहोमं प्रयौति) -तै.सं.१.३.१०.२

*गुदकाण्डकरणकोपयट्संज्ञका होमाः :- अद्भ्यस्त्वौषधीभ्यो मनो मे हार्दि यच्छ (इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति) - तै.सं.१.३.११.१

*अवभृथाभिधानम् :- सं त्वा विशन्त्वोषधीरुताऽऽपो यज्ञस्य त्वा यज्ञपते हविर्भि (इति सम्यञ्चं दधाति) - तै.सं.१.४.४.५२

*अवभृथाभिधानम् :- सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मो (इति अञ्जलिनाऽप उपसंगृह्य तां दिशं निरुक्षिति यस्यां दिश्यस्य द्वेष्यो भवति) - तै.सं.१.४.४५.२

*पुनराधानम् :- दर्भैः (अग्निम्) आ दधात्यद्भ्य एवैनमोषधीभ्योऽवरुध्या धत्ते - तै.सं.१.५.१.४

*पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गताप्रदर्शनम् :- प्रजननं हि वा अग्निरथौषधीरन्तगता दहति तास्ततो भूयसी  प्र जायन्ते यत्सायं जुहोति रेत एव तत्सिञ्चति प्रैव प्रातस्तनेन जनयति - तै.सं.१.५.९.१

*प्रवत्स्यतो यजमानस्योपस्थानमन्त्राः :- या इष्टा उषसो निम्रुचश्च ता सं दधामि हविषा घृतेन। पयस्वतीरोषधयः पयस्वद्वीरुधां पयः (इति अप आचामत्युपस्पृशति वा) - तै.सं.१.५.१०.२

*काम्ययाज्यापुरोनुवाक्याभिधानम्। याज्या :- पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश। वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम्। - तै.सं.१.५.११.१

*आप्यायनादि अनुमन्त्राभिधानम् :- उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् ऊर्ध्वायां दिशि - -  - तै.सं.१.६.५.२

*इडाप्रशंसा :-ओषधयो वा अस्या इडाया अन्नमोषधयो वै प्रजा प्रभवन्ती प्रत्या भवन्ति य एवं वेदान्नादो भवति - तै.सं.१.७.२.३

*वाजपेयोपयुक्तान्नहोमाभिधानम् :- वाजस्येमं प्रसव सुषुवे अग्रे सोमं राजानमोषधीष्वप्सु। ता अस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जा्रियाम पुरोहिताः (इति पुरस्तादौदुम्बरे द्रोणे सर्वौषधमाज्येन समुदायुतं भवति तस्योदुम्बरेण स्रुवेणोपघातं सप्तान्नहोमाञ्जुहोति - तै.सं.१.७.१०.१

*काम्ययाज्यापुरोनुवाक्याभिधानम् :- अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः। अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम्। - तै.सं.१.७.१३.१

*राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम् :-" विश्वभृतः स्थ जनभृतः स्थाग्नेस्तेजस्याः स्थापामोषधीनां रस स्थापो देवीर्मधुमतीरगृह्णन्नूर्जस्वती राजसूयाय चितानाः। - तै.सं.१.८.११.१

*राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम् :-- - - नक्षत्रेभ्यः स्वाहाऽद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा- - -तै.सं.१.८.१३.३

*वरुणगृहीतादिपशुविधानम् :- अथ वै तर्ह्यल्पा पृथिव्यासीदजाता ओषधयस्तामविं वशामादित्येभ्यः कामायाऽलभन्त ततो वा अप्रथत पृथिव्यजायन्तौषधयो - तै.सं.२.१.२.३

*पशुकामादीनां पशुविधिः :- पशव वा अहोरात्राणि पशूनेव प्रजातान्प्रतिष्ठां गमयत्योषधीभ्यो वेहतमा लभेत प्रजाकाम ओषधयो वा एतं प्रजायै परि बाधन्ते योऽलं प्रजायै सन्प्रजां न विन्दत ओषधयः खलु वा एतस्यै सूतुमपि घ्नन्ति या वेहद्भवत्योषधीरेव स्वेन भागधेयेनोप धावति। ता एवास्मै स्वाद्योनेः प्रजां प्र जनयन्ति विन्दते प्रजामापो वा ओषधयोऽसत्पुरुष आप एवास्मा असतः सद्ददति - तै.सं.२.१.५.३

*अन्नाद्यकामादीनां पशुविधिः :- मैत्रं श्वेतमालभेत वारुणं कृष्णमपां चौषधीनां च संधावन्नकामो मैत्रीर्वा ओषधयो वारुणीरापोऽपां च खलु वा ओषधीनां च रसमुप जीवामो मित्रावरुणावेव स्वेन भागधेयेनोप धावति तावेवास्मा अन्नं प्र यच्छतोऽन्नाद एव भवति अपां चौषधीनां च संधावा लभत उभयस्यावरुद्ध्यै -  तै.सं.२.१.९.२

*पाप्मना गृहीतस्येष्टिविधिः :- यो वामिन्द्रावरुणा द्विपात्सु पशुषु चतुष्पात्सु गोष्ठे गृहेष्वप्स्वोषधीषु वनस्पतिषु स्रामस्तं वामेतेनाव यज - तै.सं.२.३.१३.१

*पाप्मना गृहीतस्येष्टिविधिः :- यो वामिन्द्रावरुणा द्विपात्सु पशुषु स्रामस्तं वामेतेनाव यज इत्याहैतावतीर्वा आप ओषधयो वनस्पतयः प्रजाः पशव उपजीवनीयास्ता एवास्मै वरुणपाशान्मुञ्चति। - तै.सं.२.३.१३.३

*काम्ययाज्यापुरोनुवाक्याभिधानम् :- या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु। तेभिर्नो विश्वैः सुमना अहेडन्राजन्त्सोम प्रति हव्या गृभाय। - तै.सं.२.३.१४.१

*कारीरीष्टिमन्त्रव्याख्यानम् :- अपां वा एष ओषधीनां रसो यन्मध्वद्भ्य एवौषधीभ्यो वर्षत्यथो अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति - तै.सं.२.४.९.३

*अमावास्यायां सांनाय्ययागविधिः :- इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यं पृथिवीमनु व्यार्छत्तदोषधयो वीरुधोऽभवन्त्स प्रजापतिमुपाधावद् वृत्रं मे जघ्नुष इन्द्रियं वीर्यम् पृथिवीमनु व्यारत्तदोषधयो वीरुधोऽभूवन्निति स प्रजापतिः पशूनब्रवीदेतदस्मै सं नयतेति तत्पशव ओषधीभ्योऽध्यात्मन्त्समनयन्तत्प्रत्यदुहन्यत्समनयन्तत्सांनाय्यस्य सानाय्यत्वं - तै.सं.२.५.३.३

*वेदिविधिः :- उद्धन्ति यदेवास्या अमेध्यं तदप हन्त्युद्धन्ति तस्मादोषधय परा भवन्ति मूलं छिनत्ति भ्रातृव्यस्यैव मूलं छिनत्ति - तै.सं.२.६.४.२

*पशूपाकरणमन्त्राम्नानम् :- सुवर्गं याहि पथिभिर्देवयानैरोषधीषु प्रति तिष्ठा शरीरैः।- तै.सं.३.१.४.१

*उपांशुग्रहार्थाभिषवमन्त्राणामभिधानम्  :- ओषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोर् ईश्वरा ऐन्द्रः सोमः । - - -इन्द्रेण देवीर्वीरुधः  संविदाना अनु मन्यन्तां सवनाय सोममित्याहौषधीभ्य एवैनं स्वायै विशः स्वायै देवतायै निर्याच्याभि षुणोति - तै.सं.३.१.८.२

*सवनाहुत्यादिमन्त्राणामभिधानम् :- ऐन्द्रवायमादायाऽऽघारमा घारयेद् अध्वरो यज्ञोरयमस्तु देवा ओषधीभ्यः पशवे नो जनाय - तै.सं.३.१.९.३

*कासांचित्पुरोनुवाक्यानामभिधानम् :- घृतेन द्यावापृथिवी मधुना समुक्षत पयस्वतीः कृणुताऽऽप ओषधीः। ऊर्जं च तत्र सुमतिं च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु। - तैसं.३.१.११.८

*सोमावेक्षणाभिधानम् :- स नः पवस्व शं गवे शं जनाय शमर्वते शं राजन्नोषधीभ्यो ऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य ददितारः स्याम। - तै.सं.३.२.३.१

*विकृतिरूपद्वादशाहशेषपृश्निग्रहाभिधानम् :- भूतमसि भव्यं नाम पितृणामाधिपत्येऽपामोषधीनां गर्भं धा ऋतस्य त्वा व्योमन ऋतस्य त्वा विभूमन- - - तै.सं.३.३.५.१

*पशवो वा अपामोषधीनां गर्भः पशूनेव अवरुन्ध - तैसं.३.३.५.३

*गवामयनगतपरसंज्ञकातिग्राह्यविशेषाभिधानम् :-  ब्रह्मवादिनो वदन्ति कस्मात्सत्याद् अद्भ्य ओषधयः सं भवन्तयोषधयो मनुष्याणामन्नं प्रजापतिं प्रजा अनु प्र जायन्त इति परानन्विति ब्रूयाद्यद्गृह्णात्यद्भ्यस्त्वौषधीभ्यो गृह्णामीति तस्मादद्भ्य ओषधयः सं भवन्ति यद्गृह्णात्योषधीभ्यस्त्वा प्रजाभ्यो गृह्णामीति तस्मादोषधयो मनुष्याणामन्नं - तै.सं.३.३.६.२

*जीर्णवृषालम्भाख्यकर्माभिधानम् ;वपाहोममन्त्रः :- देवानामेष उपनाह आसीदपां गर्भ ओषधीषु न्यक्तः। - तै.सं.३.३.९.१

*वशालम्भार्थो विधिः :- द्यावापृथिव्यामा लभेत् कृषमाणः प्रतिष्ठाकामो दिव एवास्मै पर्जन्यो वर्षति व्यस्यामोषधयो रोहन्ति समर्धुकमस्य सस्यं भवति - तै.सं.३.४.३.३

*राष्ट्रभृन्मन्त्राभिधानम् :- ऋताषाडतृधामाऽग्निर्गन्धर्वस्तस्योषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्त्रं पातु ता इदं ब्रह्म क्षत्त्रं पान्तु - तै.सं.३.४.७.१

*सौमिकब्रह्मत्वविधिः :- रेवदस्योषधीभ्यस्त्वौषधीर्जिन्वेत्याहौषधीष्वेव पशून्प्रतिष्ठापयति - तै.सं.३.५.२.४

*आदित्यग्रहमन्त्रोक्तिः :- पशवो वा एते यदादित्य एष रुद्रो यदग्निरोषधीः प्रास्याग्नावादित्यं जुहोति रुद्रादेव पशूनन्तर्दधात्यथो ओषधीष्वेव पशून् प्रतिष्ठापयति - तै.सं.३.५.५.२

*दधिग्रहणमन्त्रोक्ति : प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा सते त्वाऽसते त्वाऽद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भूतेभ्यो - तै.सं.३.५.८.१

*मृदाक्रान्त्यभिधानम् :- अपो देवीरुप सृज मधुमतीरयक्ष्माय प्रजाभ्यः। तासां स्थानादुज्जिहतामोषधयः सुपिप्पलाः। (इति अश्वस्य पदेऽप उपसृज्य) - तै.सं.४.१.२.४

*मृदाक्रान्त्यभिधानम् :- त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः (इति अभ्रिया मृत्खनं परिलिखति बाह्यां वर्षीयसीम्)- तै.सं.४.१.२.५

*मृदाहरणाभिधानम् :- स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु। चित्रः शिशुः परि तमाँस्यक्तः प्र मातृभ्यो अधि कनिक्रदद्गा:। (इति हरति) - तै.सं.४.१.४.२

*चयनार्थदेवयजनपरिग्रहाभिधानम् :- अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे। गर्भे सञ्जायसे पुनः। गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्। गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि।(इति अप्सु भस्म प्रवेशयति) - तै.सं.४.२.३.३

*गार्हपत्यचयनाभिधानम् :- अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीषु अप्सु वा यजत्र। येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः (इति मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति)। - तै.सं.४.२.४.२

* आहवनीयचयनार्थ भूकर्षणाभिधानम् :- कामं कामदुघे धुक्ष्व मित्राय वरुणाय च। इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः।(इति पुच्छाच्छिरोऽधि कृषति) - - - - तै.सं.४.२.५.६

*आहवनीयचयनार्थौषधिवापाभिधानम् :- या जाता ओषधयो देवभ्यस्त्रियुगं पुरा। मन्दामि बभ्रूणामहं शतं धामानि सप्त च। शतं वो अम्ब धामानि सहस्रमुत वो रुहः। अथा शतक्रत्वो यूयमिमं मे अगदं कृत। पुष्पावतीः प्रसूवतीः फलिनीरफला उत। अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः। ओषोधीरिति मातरस्तद्वो देवीरुप ब्रुवे। रपांसि विघ्नतीरित रपः चातयमानाः। अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता। गोभाज इत्किलासथ यतसनवथ पूरुषम्। यदहं वाजयन्निमा ओषधीर्हस्त आदधे। आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा। यदोषधयः संगच्छन्ते राजानः समिताविव। विप्रः स उच्यते भिषग्रक्षोहाऽमीवचातनः। - - - -ता सर्वा ओषधयः संविदाना इदं मे प्रावता वचः। उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते। धनं सनिष्यन्तीनामात्मानं तव पूरुष - - - - या ओषधयः सोमराज्ञी: प्रविष्टाः पृथिवीमनु। तासां त्वमस्युत्तमा प्र णो जीवातवे सुव। अवपतन्तीरवदन्दिव ओषधयः परि। यं जीवमश्नवामहै न स रिष्याति पूरुषः। - - - - - ओषधयः सं वदन्ते सोमेन सह राज्ञा। यस्मै करोति ब्राह्मणस्तं राजन्पारयामसि। - तै.सं.४.२.६.१-५(तु. ऋ. १०.९७)

 

*आहवनीयचयनार्थलोष्टक्षेपाद्यभिधानम् :- आ नो गोषु विशत्वोषधीषु जहामि सेदिमनिराममीवाम् (इति चतसृभिर्दिग्भ्योलोष्टान्त्समस्यति येऽन्तर्विधाद्बहिर्विधमापन्ना भवन्ति) - तै.सं.४.२.७.२

*स्वयमातृण्णादीष्टकोपधानाभिधानम् :- मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः (इति दध्ना मधुमिश्रेण कूर्ममभ्यज्य)। - तै.सं.४.२.९.३

*अवभृथे प्रथमाज्यभागस्य पुरोनुवाक्या :- अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे। गर्भे सञ्जायसे पुनः। - तै.सं.४.२.११.३

*पञ्चमचितिशेषस्तोमभागाभिधानम् ; पश्चिमायां दिश्युपधेयानामिष्टकानां मन्त्राः :-   रेवदस्योषधीभ्यस्त्वौषधीर्जिन्व - तै.सं.४.४.१.२

*ऋतव्याख्येष्टकाभिधानम् :-- - - -द्यावापृथिवी कल्पन्तामाप ओषधीः कल्पन्तामग्नयः पृथङ् - तै.सं.४.४.११.१

*अश्वाक्रमणपूर्वकभूसंस्काराभिधानम् :- यत्र वा आप उपगच्छन्ति तदोषधयः प्रति तिष्ठन्त्योषधीः प्रतितिष्ठन्तीः पशवोऽनु प्रतितिष्ठन्ति पशून्यज्ञो यज्ञं यजमानो यजमानं प्रजाः - तै.सं.५.१.३.१

*संभृतमृदो यज्ञभूमौ समाहरणम् :- इमे वै रोदसी तयोरेष गर्भो यदग्निस्तस्मादेवमाहाग्ने चारुर्विभृत ओषधीष्वित्याह यदा ह्येतं विभरन्त्यथ चारुतरो भवति प्र मातृभ्यो अधि कनिक्रदद्गा इत्याहौषधयो वा अस्य मातरस्ताभ्य एवैनं प्र च्यावयति - तै.स.५.१.५.४

वरुणो वा एष यजमानम् अभ्य् ऐति यद् अग्निर् उपनद्धः । ओषधयः प्रति गृह्णीताग्निम् एतम् इत्य् आह    शान्त्यै  तै.सं. ५.१.५.९

*उखानिर्माणम् :- ओषधयः प्रतिमोदध्वम् एनमित्याहौषधयो वा अग्नेर्भागधेयं ताभिरेवैनं समर्धयति पुष्पावतीः सुपिप्पला इत्याह तस्मादोषधयः फलं गृह्णन्ति - तै.सं.५.१.५.१०

*क्षेत्रकर्षणम् :- तिस्रस्तिस्रः सीताः कृषति त्रिवृतमेव यज्ञमुखे वि यातयत्योषधीर्वपति ब्रह्मणाऽन्नमवरुन्धे ऽर्केऽर्कश्चीयते चतुर्दशभिर्वपति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्या उभयीषामवरुद्ध्या - - - -कृष्टे वपति कृष्टे ह्योषधयः प्रतितिष्ठन्त्यनुसीतं वपति प्रजात्यै - तै.सं.५.२.५.५

*रुक्माद्युपधानम् :-  यत् पृथिव्यां चिन्वीत पृथिवीं शुचाऽर्पयेन्नोषधयो न वनस्पतयः प्र जायेरन्यदन्तरिक्षे चिन्वीतान्तरिक्षं शुचाऽर्पयेत् - तै.सं.५.२.७.१

*स्तोमभागास्येष्टकाभिधानम् :- पृतनाषाड् इति पशून् रेवदित्योषधीरभिजिदसि युक्तग्रावा - तै.सं.५.३.६.१

*भूयस्कृदादीष्टकाषट्काभिधानम् :- भूयस्कृदसीत्येव भूयांसोऽभवन् वनस्पतिभिरोषधीभिर्वरिवस्कृदसीतीमामजयन् - तै.सं.५.३.११.१

*वाजप्रसवीयाभिधानम् :- अथो अभिषेक एवास्य स चतुर्दशभिर्जुहोति सप्त ग्राम्या ओषधयः सप्त आरण्या उभयीषामवरुद्ध्या - तै.सं.५.४.९.१

*रेतसिगाद्यभिधानम् :- यत्र असौ रेतः सिञ्चति तदस्यां प्रति तिष्ठति तत्प्र जायते ता ओषधय वीरुधो भवन्ति ता अग्निरत्ति य एवं वेद प्रैव जायते ऽन्नादो भवति - तै.सं.५.५.४.१

*आहुत्याद्यभिधानम् :- यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु - तै.सं.५.५.९.३

*बहुधा चयनप्रशंसा :- इयं वाव प्रथमा चितिरोषधयो वनस्पतय पुरीषमन्तरिक्षं द्वितीया वयांसि पुरीषमसौ तृतीया नक्षत्राणि पुरीषं - - - -तै.सं.५.६.१०.२

*ऋषभेष्टकाद्यभिधानम् :- ब्रह्मवादिनो वदन्ति यदर्धमासा मासा ऋतवः संवत्सर ओषधीः पचन्त्यथ कस्मादन्याभ्यो देवताभ्य आग्रयणं निरुप्यत - - - -तै.सं.५.७.२.५

*अग्नेः पक्षतिः सरस्वत्यै निपक्षति सोमस्य तृतीयाऽपां चतुर्थ्योषधीनां पञ्चमी संवत्सरस्य षष्ठी - - - तै.सं.५.७.२१.१

*क्षुरकर्मादिसंस्कृतस्य प्राग्वंशप्रवेशाभिधानम् - - - पितृणां नीविरोषधीनां प्रघातः आदित्यानां प्राचीनतानो - - - तै.सं.६.१.१.३

*कृष्णाजिनादिभिर्दीक्षाकरणाभिधानम् :- कृष्यै त्वै सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते सुपिप्पलाभ्यस्त्वौषधीभ्य इत्याह तस्मादोषधयः फलं गृह्णन्ति - तै.सं.६.१.३.७

*सोमोन्मानाभिधानम् :- ब्रह्मवादिनो वदन्ति विचित्य सोमा ३ न विचित्या३ इति सोमो वा ओषधीनां राजा तस्मिन्यदापन्नं ग्रसितमेवास्य तद्यद्विचिनुयात्- - -तै.सं.६.१.९.१

*वेद्यभिधानम् :- उद्धन्ति यदेवास्या अमेध्यं तदप हन्त्युद्धन्ति तस्मादोषधय परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्त्युत्तरं बर्हिष उत्तरबर्हिः स्तृणाति - - - तै.सं.६.२.४.५

*काम्ययागभूम्यभिधानम् :- यत्रान्याअन्या ओषधयो व्यतिषक्ता स्युस्तद्याजयेत्पशुकाममेतद्वै पशूनां रूपं रूपेणैवास्मै पशून् अवरुन्धे - तै.सं.६.२.६.३

*व्याघारणविधिः :- स (अग्निः) निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ताँ सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे - - - - तै.सं.६.२.८.४

*यूपखण्डनाभिधानम् :- देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्त्योषधे त्रायस्वैनं स्वधिते मैनं हिंसीरित्याह वज्रो वै स्वधितिः शान्त्यै - - -तै.सं.६.३.३.२

*यूपस्थापनाभिधानम् :- सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति - तै.सं.६.३.४.२

*यूपस्थापनाभिधानम् :- पितृणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीनां रशना विश्वेषाम् देवानामूर्ध्वं रशनाया आ चषालादिन्द्रस्य - - -तै.सं.६.३.४.६

*पशुनियोजनम् :- अद्भ्यः त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः - तै.सं.६.३.६.४

*वपाहोमाभिधानम् :- ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीरित्याह वज्रो वै स्वधितिः शान्त्यै - तै.सं.६.३.९.१

*वपाहोमाभिधानम् :- अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्रं समर्धयत्यथो ओषधीष्वेव पशून्प्रतिष्ठापयति - तै.सं.६.३.९.५

*सोमपात्रस्तुतिः :- यानि पराचीनानि पात्राणि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवन्ति - - -यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति - तै.सं.६.५.११.१

*अवभृथहोमकथनम् :- सं त्वा विशन्त्वोषधीरुताऽऽप इत्याहाद्भिरेवैनमोषधीभिः सम्यञ्चं दधाति - तै.सं.६.६.३.४

*ज्योतिष्टोमतदाद्यसंस्थारूपाग्निष्टोमयोर्विधानम् :- - - - -तस्माद्वडवा द्विरेता अथो आहुरोषधीषु न्यमार्डिति तस्मादोषधयो ऽनभ्यक्ता रेभन्ति - तै.सं.७.१.१.२

*अश्वमेधमन्त्रकथनम् :- दिवे त्वा सते त्वाऽसते त्वाऽद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्यः। - तै.सं.७.१.११.१

*द्वादशरात्रकथनम् :-- - - स रसमह वसन्ताय प्रायच्छत् यवं ग्रीष्मायौषधीर्वर्षाभ्यो व्रीहीञ्छरदे - - -तै.सं.७.२.१०.२

*चतुर्दशरात्रकथमनम् :- चतुर्दश रात्रो भवति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्या उभयीषामवरुद्ध्यै - तै.सं.७.३.४.१

*- - - -व्रीहिणाऽन्नानि यवेनौषधीर्न्यग्रोधेन वनस्पतीनुदुम्बरेणोर्जं - तै.सं.७.३.१४.१

*ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा - तै.सं.७.३.१९.१

*त्रिंशद्रात्रकथनम् :- ऋक्षा वा इयमलोमकाऽऽसीत्साऽकामयतौषधीभिर्वनस्पतिभिः प्र जायेयेति सैतास्त्रिंशतं रात्रीरपश्यत्ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत - - - -इयं वा अक्षुध्यत्सैतां विराजमपश्यत्तामात्मन्धित्वान्नाद्यमवारुन्धौषधीः वनस्पतीन्प्रजां पशून्तेनावर्धते - तै.सं.७.४.३.१

*त्रिंशद्रात्रकथनम् :- यदेते स्तोमा व्यतिषक्ता भवन्ति तस्मादियम् ओषधीभिर्वनस्पतिभिर्व्यतिषक्ता  - तै.सं.७.४.३.५

*संवत्सरसत्रदीक्षाकालः :- ते पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठत ओषधयो वनस्पतयोऽनूत्तिष्ठन्ति तान्कल्याणी कीर्तिरनूत्तिष्ठति - तै.सं.७.४.८.३

*अश्वमेधाङ्गमन्त्रकथनम् :- मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम्। पीवस्वतीर्जीवधन्या पिबन्त्ववसाय पद्वते रुद्र मृड। या सरूपा विरूपा एकरूपा - - - - -तै.सं.७.४.१७.१

*संवत्सरसत्रकथनम् :- उपरिष्टान्मासां पृष्ठान्युप यन्ति तस्मादुपरिष्टादोषधय फलं गृह्णन्ति। - तै.सं.७.५.१.६

*उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपमग्निस्ते तेजस्तस्मै त्वा महिम्ने प्रजापतये स्वाहा - तै.सं.७.५.१७.१

*- - -निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्। - तै.सं.७.५.१८.१

*जज्ञि बीजं वर्ष्टा पर्जन्यः पक्ता सस्यं सुपिप्पला ओषधयः स्वधिचरणेयं सूपसदनोऽग्निः - - - -तै.सं.७.५.२०.१

*अश्वमेधाङ्गमन्त्रकथनम् :- तारका अस्थानि नभो माँसान्योषधयो लोमानि वनस्पतयो वालाः - - -तै.सं.७.५.२५.१

*यदग्निं यजति तस्माद्दक्षिणतोऽग्रे ओषधयः पच्यमाना आयन्त्याग्नेय्यो ह्योषधयः। - ऐतरेय ब्राह्मण १.७

*स्तृणीत बर्हिरित्योषध्यात्मा वै पशुः पशुमेव तत्सर्वात्मानं करोति। - ऐ.ब्रा.२.६

*ऊवध्यगोहं पार्थिवं खनतादित्याहौषधं वा ऊवध्यमियं वा औषधीनां प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति - ऐ.ब्रा.२.६

*औषधं वा ऊवध्यमियं वा ओषधीनां प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति - ऐ.ब्रा.२.११

*सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्ति - - - -ऐ.ब्रा.३.४०

* इयं वै सर्पराज्ञीयं हि सर्वतो राज्ञीयं वा अलोमिकेवाग्र आसीत्सैतं मन्त्रमपश्यदाऽयं गौः पृश्निरक्रमीदिति तामयं पृश्निर्वर्ण आविशन्नानारूपो यं यं काममकामयत यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि। - ऐ.ब्रा.५.२३

*यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चितिरिति - - - यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः। पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति। - ऐ.ब्रा.५.२७

*अग्निहोत्रप्रशंसार्थं भावनारूपो होमः :- असौ वा अस्याऽऽदित्यो यूपः पृथिवी वेदिरोषधयो बर्हिर्वनस्पतय इध्मा आपः प्रोक्षण्यो दिशः परिधयः। - ऐ.ब्रा.५.२८

*यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्ति - - - -तदभिमृश्य जपेद्यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः। पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति - ऐ.ब्रा.७.३

*अथैतानि ह वै क्षत्त्रियादीजानाद् व्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्त्रे ऊर्गन्नाद्यमपामोषधीनां रसो ब्रह्मवर्चसमिरापुष्टिः प्रजातिः क्षत्त्ररूपं तदथो अन्नस्य रस ओषधीनां क्षत्त्रं प्रतिष्ठा - - ऐ.ब्रा.८.७

*अथ यद्दधि मधु घृतं भवत्यपां स ओषधीनां रसो ऽपामेवास्मिंस्तदोषधीनां रसं दधाति - ऐ.ब्रा.८.८

*इन्द्रियं वा एतदस्मिँल्लोके यद्दधि यद्दध्नाऽभिषिञ्चतीन्द्रियमेवास्मिंस्तद्दधाति रसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाऽभिषिञ्चति रसमेवास्मिंस्तद्दधाति - - -ऐ.ब्रा.८.२०

*पुरोहितस्य राजदत्तविष्टराभिमन्त्रणम् :- या ओषधीः सोमराज्ञीर्बह्वी: शतविचक्षणाः। ता मह्यमस्मिन्नासनेऽच्छिद्रं शर्म यच्छत। या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु। ता मह्यमस्मिन्नासनेऽच्छिद्रं शर्म यच्छत। - ऐ.ब्रा.८.२७ (तु. ऋग्वेदः १०.९७.१८-१९)

*तस्याग्निर्होतासीद्, वायुरध्वर्युः, सूर्य उद्गाता, - - - -ओषधिवनस्पतयश्चमसाध्वर्यवो, विश्वे देवा होत्रका - - -गोपथ ब्राह्मण १.१.१३

*अन्तरिक्षेण यजुः समदधाद्, यजुषा वायुं, वायुनाभ्रम्, अभ्रेण वर्षं, वर्षेणौषधिवनस्पतीन्, ओषधिवनस्पतिभिः पशून् - - - - गो.ब्रा.१.१.३५

*दिवा साम समदधात्, साम्नादित्यम्, आदित्येन रश्मीन्, रश्मिभिर्वर्षं, वर्षेणौषधिवनस्पतीन्, ओषधिवनस्पतिभिः पशून् - - -गो.ब्रा.१.१.३६

*जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते - ब्रह्मवर्चसं च यशश्च - - - -मृगानस्य ब्रह्मवर्चसं गच्छति, - - -- - कुमारीं रूपम्, ओषधिवनस्पतीन् पुण्यो गन्धः। - - - - - अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां, तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्। तेन तं पुण्यं गन्धमवरुन्द्धे, यो ऽस्योषधिवनस्पतिषु भवति। - गो.ब्रा.१.२.२

*अथ ब्रह्माणं दीक्षयति। चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम्। मनसैव तदोषधीः संदधाति। तद् या ओषधीर्वेद, स एव ब्रह्मौषधीस्तदनेन लोकेन संदधाति - गोब्रा.१.४.२

*अथोद्गातारं दीक्षयति। - - - - -पर्जन्यः आदित्यः। पर्जन्यादधि वृष्टिर्जायते। वृष्टिरेव तदोषधीः संदधाति। - गो.ब्रा.१.४.३

*पुरुषो वाव संवत्सरः। - - - - नखानि नक्षत्राणां रूपं, लोमान्योषधिवनस्पतीनाम्। - गो.ब्रा.१.५.३

*देवा वा ओषधीषु पक्वास्वाजिमयुः । स इन्द्रो ऽवेद् - अग्निर्वावेमा प्रथमः उज्जेष्यतीति। - - - - गो.ब्रा.२.१.१७

*- - - -अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः। सौमीर्वा ओषधीः। सोमः ओषधीनामधिराजः। याश्च ग्राम्या याश्चारण्यास्तासामेष उद्धारो यच्छ्यामाकः। - गो.ब्रा.२.१.१७

*रेवदसि, ओषधीभ्यस्त्वेति। ओषधीष्वेव यज्ञं प्रतिष्ठापयति। - गो.ब्रा.२.२.१३

*अग्निर् वाव यम इयं यमी कुसीदं वा एतद् यमस्य यजमान आदत्ते, यदोषधीभिर्वेदिं स्तृणाति। - गो.ब्रा.२.४.८

*प्रेङ्खा-- दक्षिणा वा एकेषां पशूनां रज्जवः सव्या एकेषां तद्यदुभय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै। दार्भ्य: स्युर्दर्भो वा ओषधीनामपहतपाप्मा - ऐतरेय आरण्यक १.२.३

*समुत्सृप्य वा ओषधिवनस्पयः फलं गृह्णन्ति - ऐ.आ.१.२.४

*प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो - - ऐ.आ.२.१.३

*अथातो विभूतयोऽस्य पुरुषस्य। तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्ते ऽग्निरेना स्वदयति - ऐ.आ.२.१.७

*ओषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति - ऐ.आ.२.३.१

*ओषधिवनस्पतयो यच्च किञ्च प्राणभृत्स आत्मानमविस्तरां वेद। ओषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु। प्राणभृत्सु त्वेवाविस्तरामात्मा तेषुहि रसोऽपि दृश्यते न चित्तमितरेषु। - ऐ.आ.२.३.२

*----त्वङ्निरभिद्यत त्वचा लोमानि लोमभ्य ओषधिवनस्पतयो। हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा। - ऐ.आ.२.४.१

*- - - दिश श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशत् - ऐ.आ.२.४.२

*- - - -एतमप्स्वेतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते। - ऐ.आ.३.२.३

*- - - -मिथुनमिव मरीचयो भूयासम्। आप इव रस ओषधय इव रूपं भूयासम। अन्नमिव विभु यज्ञ इव प्रभुर्भूयासम्। - ऐ.आ.५.१.१

*अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा - ताण्ड्य ब्राह्मण १.६.८

*सं अद्भ्य ओषधीभ्यः (इत्युदञ्चं चमसन्निनयेयुः) - तां.ब्रा.१.६.१६

*ोदस्यस्योषधीभ्यस्त्वौषधीर्ज्जिन्व सवितृप्रसूता बृहस्पतये स्तुत - तां.ब्रा.१.१०.२

*महाव्रतम् - -- - -ऽयमन्यतरः पक्षः स ओषधिभिश्च वनस्पतिभिश्च साहस्रोऽन्तरिक्षमात्मा तद्वयोभिः साहस्रं - - - -तां.ब्रा.५.२.३

*पूर्व्वपक्षे मासाः सन्तिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवदत्यरात्सुरिमे सत्रिण इति ते राध्नुवन्ति - तां.ब्रा.५.९.१४

*विषेण व ताँ समामोषधयोक्ता भवन्ति यां समाम्महादेवः पशून् हन्ति यच्छं राजन्नोषधीभ्य इत्याहौषधीरेवास्मै स्वदयत्युभय्योऽस्मै स्वदिता पच्यन्तेऽकृष्टपच्याश्च कृष्टपच्याश्च। - तां.ब्रा.६.९.९

*सोमपीथो वा एतस्मादपक्रामतीत्याहुर्यस्य सोममपहरन्तीति स ओषधीश्च पशूंश्च प्रविशति तमोषधिभ्यश्च पशुभ्यश्चावरुन्धे - तां.ब्रा.९.५.६

*दशरात्रगतान् त्रिवृदादिस्तोमान प्रशंसा :- अग्निना पृथिव्यौषधिभिस्तेनायं लोकस्त्रिवृद्वायुनान्तरिक्षेण वयोभिस्तेनैष लोकस्त्रिवृत्- - - -तां.ब्रा.१०.१.१

*षडहे विभक्तेर्नानात्वं :- यस्मादेषा समाना सतीन्द्रविभक्तिर्नानारूपा तस्माद्यथर्त्वोषधयः पच्यन्ते - तां.ब्रा.१०.८.१

*सत्रं सर्व्वनिधिसाधनमिति विवक्षुराह अथ ह वै तर्हि नौषधीषु पय आसीन्न क्षीरे सर्पिर्न्न माँसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद्यत एतदेकषष्टिरात्रं दैवाब्रात्या उपांस्ततोवै तानि तान्येतैर्व्वीर्य्यै समसृज्यन्त - तां.ब्रा.१४.१८.३?

*यदुन्नतं भूम्या अनूषरं यत्र बहुला ओषधयश्चात्वालसारिण्यो यत्राप स्युस्तस्य नु पुर। - षड्विंश ब्राह्मणम् ३.३.११

*यूप स्तुति -  तस्य यन्नैखान्यं तत्पितॄणाम्। यदूर्ध्वं तन्मनुष्याणाम् यत्तदधो रशनाया ओषधिवनस्पतीनाम्। - - - -ष.विं.ब्रा.५.४.१३

*अथ संभरणम् :- चन्द्रमस कलाभ पोषणम्। तमोषधीभ्यश्च वनस्पतिभ्यश्च गोभ्यश्च पशुभ्यश्चादित्याच्च ब्रह्मणश्च ब्राह्मणा संनयन्ते। - ष.वि.ब्रा.५.६.३

*स्वाहा वै सत्यसंभूता - - - - - ओषधिवनस्पतयो लोमानि - ष.विं.ब्रा.५.६.२

 

ओषधि

१. अग्रमोषधीनां बर्हिः तै.सं. ६.३.९.५

२. अपां वा एष ओषधीनां रसः (+यन्मधु काठ.]; यद्दर्भाः ।तैआ. )। मै , ,; काठ ११,१०; तैआ २,११,१।

३. एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः । माश १४,,, ।।

४. अपोछन्निमं लोकमागच्छति (चन्द्रमाः) । स इमा अप ओषधीः प्रविशति । जै २,३ (तु.  माश १, , , ५)।

५. अवपतन्तीरवदन् दिव ओषधयः परि । यं जीवमश्नवामहै (महे ।मै.J) न स रिष्याति पूरुषः । तैसं ४, , , ; मै २,,१३ (तु. काठ १६,१३)।

६. अश्वत्थे वो (ओषधीनाम्) निवेशनं पर्णे वो वसतिः कृता । गोभाजा इत्किलासथ यत्सनवाथ   पूरुषम् । यदोषधयः संगच्छन्ते राजानः समिता इव । विप्रः स उच्यते कवी रक्षोहामीवचातनः । मै २, , १३ ।।

७. असौ ( द्यौः ) रेतः सिञ्चति, तदस्यां ( पृथिव्याम् ) प्रति तिष्ठति, तत् प्र जायते, ता ओषधयो वीरुधो भवन्ति ता अग्निरत्ति । तैसं ५, ,, १-२ ।

८. इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यं पृथिवीमनुव्यार्च्छत् तदोषधयो वीरुधो ऽभवन् । तैसं २,, , २ ।।

९. इयं (पृथिवी ) वाव प्रथमा चितिरोषधयः (वनस्पतयः [तैसं.] ) पुरीषम् । तैसं ५, ,१०, ; मै ३,, ; काठ २२, ४ ।।

१०. उभय्यो ( ओषधयः ) ऽस्मै स्वदिताः पच्यन्ते ऽकृष्टपच्याश्च कृष्टपच्याश्च । तां ६,,९।।

११. ऊर्ध्वा ओषधय उत्पच्यन्ते । काठ २३, ४ ।।

१२. एतद्धैतासां ( ओषधीनाम् ) समृद्धं रूपं यत्पुष्पवत्यः सुपिप्पलाः । माश ६,,,१७ ।

१३. एष खलु वा ओषधीनां तेजो यद् यवः। मै ३, ,३ ।

१४. एष ह वै सर्वासामोषधीनां रसो यत्पयः । कौ २, १।

१५. ओषधय आयुष्मतीस्ता अद्भिरायुष्मतीः । काठ ११, ७ ।

१६. ओषधय इव रूपं भूयासम् । ऐआ ५, , १ ।

१७. ओषधय उ हापां  रसः । माश ३, , , ७ ।

१८. ओषधयः खलु वै वाजः । तै १, , , १।।

१९. ओषधयः (+वै ( मै १, १०,७ काठ.J) पशवः । मै २,, ; काठ २५, ; क ३८, ५।

२०. ओषधयः (+ वै ।मै.) पावकाः (छदींषि [क.) । मै , , ; काठ ६, ; क ४०,३।

२१. ओषधयः प्रतिमोदध्वमेनं पुष्पवतीः सुपिप्पलाः । मै २, ,५।  

२२. ओषधयः प्राचुच्यवुर्यत् किं च तनुवां रपः ( र्यत् किञ्चित् तन्वो रपः [काठ.])।

तैसं ४, , , ; काठ १६, १३ ।

२३. ओषधयः प्रतिगृभ्णीताग्निमेतं इति , - --- - ओषधयः शीर्षन् फलं गृह्णन्ति । मै , , ;  ३,६, ८ ।।

२४. ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस्तं राजन् पारयामसि । तैसं ४, , , ६ ।।

२५. ओषधयः सोमः (सोमस्य योनिः [मै ३, , ४])। मै २, ,; ,,४ ।

२६. ओषधयो ऽनभ्यक्ता रेभन्ति ( रेभन्ते [काठ., क.])। तैसं ७, , , ; काठ २६, ; क ४१, ; जै १,६७ ।।

२७. इयं वा अग्निहोत्रस्य वेदिर् , - - - -ओषधयो बर्हिः (लोमानि [तैसं.]) । तैसं ७,,२५,; मै ,,; ऐ ५, २८; तै २,,,; माश १, , , ; १,८,,११; १,९,,२९ ।।

२८. ओषधयो बर्हिषा (सहागच्छन्तु) । तैआ ३,,१ ।।

२९. आपो वै रेवती , रोषधयो मधुमतीः, पशवो जगती , रप ओषधीः पशूंस्तानस्मै संसृज्यैकधा मधुमतः करोति ॥ मै ,,; काठ ३१, ; तै ३,,,२ ।।

३०. ओषधयो मनुष्याणामन्नम् । तैसं ३,,, ३ ।।

३१. ओषधयो मूलतो जायन्तेऽग्रतः पच्यन्ते । जै २, ३७६; ,३०७ ।

३२. देवानां त्वा पत्नीर्देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखा इति , ओषधयो वै देवानां पत्नीर्देवीर्विश्वदेव्यवतीः । मै ,, (तु. माश ६, ,,४) ।

३३. ओषधयो वै पशुपतिस्तस्माद्यदा पशव ओषधीर्लभन्तेऽथ पतीयन्ति । माश ६,,,१२ ।

३४. ओषधयो वै मुदः । ओषधिभिर्हीदं सर्वं मोदते । माश ९,,,७ ।

३५. ओषधयो वै सोमस्य विशः । तैसं ३,, ,२ ।।

३६. ओषधीः प्रतितिष्ठन्तीः पशवोऽनु प्रति तिष्ठन्ति । तैसं ५,,,१ ।।

३७. ओषधीनां वाऽएष परमो रसो यन्मधु । माश ११, ,, १८ ।।

३८. ओषधीनां (धिभ्यो [काठ.) वेहतमालभेत प्रजाकामः । तैसं २,,,; काठ १३,४ ।।

३९. ओषधीनां पञ्चमी (प्रघातः काठ २३,१]) । तैसं ५,,२१,; काठ २३,; ५३,११ ।। ४०. ओषधीरन्तगता दहति, तास् (ओषधयः) ततो भूयसीः प्रजायन्ते । तैसं १,,,१ ।।

४१. ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । रपांसि विघ्नतीरित रपश् (रक्षश् [काठ., क.J) चातयमानाः । तैसं ४,,,१-२; मै २,,१३; काठ १६,१३; क २५,४ ।

४२. ओषधीरेव देवेभ्यो रथन्तेरणादुह, पशून् बृहता , - - । मै ,,

४३. ओषधीर्वा इमा रुद्रा विषेणाञ्जँस्ताः पशवो नालिशन्त. . . उत बह्वीराहुतयो हूयन्ते, ता अग्निनान्ववाकरोत् , ता अस्वयत् , ताः पुनर्णवा अजायन्तैतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते । मै , ,

४४. ओषधीष्वेव पशून प्रतिष्ठापयति । तैसं ३,,,४ ।।

४५. ओषधे त्रायस्वैनम् । तैसं १,,, ; काठ २,; क १, १३; , ९।।

४६. कृष्टे ह्याशिष्ठमोषधयः प्रतितिष्ठन्ति । क ३१, ५।।

४७. कृष्टे ह्योषधयः (+क्षेपिष्ठं । मै.J) प्रतितिष्ठन्ति । तैसं ५,, ,; मै ३,,५।

४८. जगत्य ओषधयः । माश १,, ,२ ।।

४९. तस्माच्छरदमोषधयोऽभिसंपच्यन्ते । तां २१, १५,३।।

५०. तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उ हापां रसस्तस्मादापः पीताः कैवल्यो न धिन्वन्ति यदेवोभय्यः सं सृष्टा भवन्त्यथैव धिन्वन्ति । माश ३,,,७ ।

५१. तस्माद् गिरा ओषधयः शीर्षाहार्यं फलं पच्यन्ते । मै ३,,८ ।

५२. तस्माद्दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्याग्नेय्यो ह्योषधयः । ऐ १, ७ ।।

५३. तां (आहुतिं प्रजापतिः ) व्यौक्षद् ( अग्नावत्यजत् ) ओषं धयेति तत ओषधयः | समभवंस्तस्मादोषधयो नाम । माश २,,,५।।

५४. तासां (अपाम् ) यद् यज्ञियं मेध्यमासीत्तदुक्रामत् , ता इमा ओषधयोऽभवंस्तासां वा एतत्तेजो यद्दर्भा एता वै शुष्का आपः । मै ३,,३।।

५५. तास् (ओषधयः) ते यक्ष्मं विबाधन्ताम् । तैसं ४,,,४ ।

५६. अग्निहोत्रम् -- दक्षिणतो निमार्ष्ट्योषधीश्च तेन पितृँश्च प्रीणाति । मै , ,।।

५७. देवानां रेत ओषधयः ओषधीनां रेतोऽन्नम् । ऐआ २, , ३ ।।

५८. दैवीर्वा एता विशो यदोषधयः । काठ २५, १०; के ४१, ४।।

५९. द्वय्यो वा ओषधयः पुष्पेभ्यो ऽन्याः फलं गृह्णन्ति । मूलेभ्यो ऽन्याः । तै ३, , १७, ४ ।।

६०. पयो (पशवो [मै.J) वा ओषधयः । मै ३, , ; काठ ३५, १८; क ४८, १६; तै ३, , ,; ; ; ; (तु. काठ २६,३) ।

६१. पशवो वै वेदः ओषधयो ह्येषः । मै , , ।।

६२. पृथिवी शान्तिः, सौषधीभिश्शान्तिः । मै ४, , २७।।

६३. पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । तैआ ८, , ; तैउ २, १ ।।

६४. प्रजापतिर्वा ओषधीः परुश्शो वेद, प्राजापत्योऽश्वो , यदश्वपरश्वा बर्हिर् दाति , ओषधीनामहिंसायै । मै , , ।।

६५. प्रजापतेर्विस्रस्तस्य यानि लोमान्यशीयन्त ता इमाऽ ओषधयो ऽभवन् । माश ७,, , ११ ।।

६६. फलवतीर्न (फलिन्यो न तैसं.J) ओषधयः पच्यन्ताम् । तैसं ७, , १८, १, मै ३, १२, ६ ।

६७. भद्राः शिवा यक्ष्मन्नुदो न ओषधीः । काठसंक ६२:८ । ।

६८. यथा जरत्कक्षमग्निनोपदीप्य तमद्भिरुपसिञ्चेत् तस्मिन् कल्याण्य ओषधयो जायेरंस्तासु  पशवो रमेरन् । जै २, १३७ । ।

६९. यदहं वाजयन्निमा (यदिमा वाजयन्नहं [मै.J) ओषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा । तैसं ४, , , ; मै २, , १३ ।

७०. यवेनौषधी: ( अन्वाभवत् )। काठ ४३, ४ ।

७१. या ओषधीः सोमराज्ञीः । मं २, , ; ४ ।।

७२. रुद्र ओषधीर्विषेणालिम्पत् , ताः पशवो नालिशन्त । काठ ६,५।

७३. रेवदस्योषधीभ्यस्त्वौषधीर्जिन्व । तैसं ३, , , ; , , ,; काठ १७, ; ३७, १७ ।।

७४. रेवदित्योषधीः ( असृजत ) । तैसं ५, , , १ ।।

७५. वर्षम् ( वृष्टिम् ) अन्वोषधया ओषधीरनु पशवः (प्रतितिष्ठन्ति ) । मै ३, , ५ ।

७६. वर्षवृद्धा वा ओषधयः । तै ३, , , ; ३,२, ५, १०।।

७७. वसन्ते ( वसन्ता [काठ.) पुनराभवन्ति (ओषधयः ) । काठ २५, ; क ३९, १ ।

७८. वाग्देवत्यं साम वाचो मनो देवता मनसः पशवः पशूनामोषधय ओषधीनामापः ।

तदेतदद्भ्यो जातं सामाऽप्सु प्रतिष्ठितमिति । जैउ १, १८, , १४ ।।

७९. विषेण वै तां समामोषधयो ऽक्ता भवन्ति याँ समां महादेवः पशून हन्ति, यच्छँ राजन्नोषधीभ्य इत्याहौषधीरेवास्मै स्वदयत्युभय्यो ऽस्मै स्वदिताः पच्यन्ते ऽकृष्टपण्याश्च कृष्टपच्याश्च । तां ६, , ९ ।

८०. विष्णोरध्योषधीरसृजत ( प्रजापतिः) । तै २, , , ४ ।।

८१. शरदि ह खलु वै भूयिष्ठा ओषधयः पच्यन्ते । जैउ १, १२, , ५ ॥

८२. शिशिर ओषधयः पराभवन्ति । काठ २५, ; क ३९, १ ।

 

 

 

१०८. शीर्षत ओषधयः फलं गृह्णन्ति । तैसं ६, , , ३ ।।

१०९. सप्त (+वै [काठ., क.]) ग्राम्या ओषधयः, सप्तारण्याः । तैसं ५, , , ; ५,४, , १-२; काठ २०, ; क ३१, ; तै १, , , १ ।

११०. समोषधयो रसेन (संपृच्यन्ताम् )। तैसं १, , , १ ।

१११. साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयः । ऐ ८,१६ ।।

११२. सुपिप्पला ओषधयः सन्तु । तैसं ७,, २०,१ ।।

११३. सुपिप्पलाभ्यस्त्वौषधीभ्यः . .. देवो वनस्पतिरूर्ध्वो मा पाहि । तैसं १, , , ३ ।

११४. सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमि । मै ४, , ३ ।

११५. सैनान्यं वा एतदोषधीनां यद्यवाः । ऐ ८, १६ ।।

११६. सोमं वै राजानं यत्सुपर्ण आहरन् समभिनत् तस्य या विप्रुषो अपतंस्ता एवेमा ओषधयोऽभवन् । सर्वा उ ह वै सौम्या ओषधयः । स एवास्य ( सोमस्य ) संन्यङ्गः । जै १, ३५५ ।।

११७. सोम आयुष्मान् स ओषधीभिः (+आयुष्मान् (काठ.) । तैसं २, ,१०,३-४; काठ ११,७।

११८. सोमो वै राजौषधीनाम् । कौ ४, १२; तै ३, ,१७,१ ( तु. तैसं ३, ,,; मै ४, , ;

गो २,,१७ ) ।

११९. सोऽयं सर्वो लोक ओषधिभिस्संछन्नोऽपि गिरयः । जै ३, २२६ ।।

१२०. सौमीरतः प्राचीनमोषधयो, रौद्रीः प्रतीचीनं, शुष्यन्ति प्राचीनं, शुष्यन्ति प्रतीचीनं प्रत्यक्षम् । काठ ११, ५ (तु. मै २, ,;; २,४,; ,,, ४,४,७) ।।

१२१. स्वाशिरो वै नामाप्सरस इमा एवौषधयः । जै ३, २२६ ॥ [धि- अग्नि- २६२ २९९; ४६३; ७४५; अप्- ९४; १२५; १४०; २०८; २११; २६३; असुर- २३; असुरी-;

आग्नेय- ३२; उग्र- २; ऊर्ज- ६; १८; ऋताषाह्- द्र.] ।

ओषधि-लोक- ओषधिलोको वै पितरः । माश १३, , , २०।।

ओषधि-वनस्पति१. ओषधिवनस्पतयो मे लोमसु श्रिताः । तै ३, १०, , ७।

२. ओषधिवनस्पतयो वै लोमानि । जै २, ५४ ।।

३. रसो वा एष ओषधिवनस्पतिषु यन्मधु । ऐ ८, २० ।।

४. लोमभ्य ओषधिवनस्पतयः ( निरभिद्यन्त )। ऐआ २, ,; ऐउ १,,४ ॥ [ ति- अन्न ११७ द्र. 1।।

औषध- औषधो हि सोमो राजा ऐ ३,४०।।

 

 

 

*जड वैराग वृक्ष की लावहु। सोंठ सँतोषहि आनि मिलावहु॥ मिरच तितीक्षन करुना चीता। निस्पृह पीपर मिलवहु मीता॥ कोमलता सब सौंज गिलोई। मधुवानी सों लेहु समोई॥ हरर आमरे शुचि अरु दाया। तातें निर्मल ह्वै है काया॥ असगँध आसन दृढ कै करौ। चिंतामनि चिंता परिहरौ॥ मुसलि सौंफ अजवाइन जीरा। ज्ञान ध्यान जप जोग में धीरा॥ सांत मृगांग बिना सुख नाहीं। साँच लौंग मिलवहु ता माहीं॥ भगवत धर्म धातु सब लीजै। नाम सुधा रस की पुट दीजै॥ ये औषधि सब आनि मिलावौ। ग्यान ओखली माहिं कुटावौ॥ हिय हांडी में आनि चढावौ। चेतन वह्नी करि औटावौ॥ निर्मत्सर चपनी ढकि लैयै। श्रद्धा करछी फेरत जैयै॥ हस्त क्रिया जबहीं बनि आवै। जो कबहूं सत्संगति पावै॥ पुनि लै प्रेम चखक में करै। भूमि गरीबी में लै धरै॥ प्रात कृपा बन जल सों पीवै। रोग जाई अरु जुग जुग जीवै॥ - श्री ध्रुवदास कृत बयालीस लीला में वैद्यक ज्ञान लीला( प्रकाशक : बाबा तुलसीदास, गोपाल भवन, दुसायत, वृन्दावन, वि.सं. २०२८)

Previous page