पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Jalodbhava  to Tundikera)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Jalodbhava - Jaatipushpa (Jahnu, Jagrata / awake, Jaajali, Jaataveda / fire, Jaati / cast etc.)

Jaatukarnya - Jaala  (Jaatukarnya, Jaanaki, Jaabaali, Jaambavati, Jaambavaan etc. )  

Jaala - Jeeva  (Jaala / net, Jaalandhara, Jaahnavi, Jihvaa / tongue, Jeemuuta, Jeeva etc.)

Jeeva - Jaimini ( Jeevana / life, Jrimbha, Jaigeeshavya, Jaimini etc.) 

Joshtri - Jyeshthaa (Jnaana / knowledge, Jyaamagha, Jyeshthaa etc. )  

Jyeshthaa - Jwalanaa  ( Jyeshthaa, Jyoti / light, Jyotisha / astrology, Jyotishmaan, Jyotsnaa, Jwara / fever etc. )

Jwalanaa - Dhaundhaa (Jwaala / fire, Tittibha, Damaru, Daakini, Dimbhaka, Dhundhi etc.)

Ta - Tatpurusha ( Taksha / carpenter, Takshaka, Takshashilaa, Tattva / fact / element etc. ) 

Tatpurusha - Tapa (Tatpurusha, Tanu / body, Tantra / system, Tanmaatraa, Tapa / penance etc. )

Tapa - Tamasaa (Tapa, Tapati, Tama / dark, Tamasaa etc.)

Tamaala - Taamasi (Tarpana / oblation, Tala / level, Taatakaa, Taapasa, Taamasa etc.)

Taamisra - Taaraka (Taamisra, Taamboola / betel, Taamra / copper, Taamraparni, Taamraa, Taaraka etc.)

Taaraka - Taala (Taaraa, Taarkshya, Taala etc.)

Taala - Tithi  (Taalaketu, Taalajangha, Titikshaa, Tithi / date etc. )

Tithi - Tilottamaa  (Tila / sesame, Tilaka, Tilottamaa etc.)

Tilottamaa - Tundikera (Tishya, Teertha / holy place, Tungabhadra etc.)

 

 

जीमूतवाहन

भविष्य पुराणे ३.२.१५ विक्रम-वेताल संवाद संदर्भे कथा संक्षेपरूपेण एवं प्रकारेण अस्ति कश्चिद् ब्राह्मणेन शारदीय नवरात्रव्रत चीर्णनस्य संकल्पमकरोत्। सः प्रतिग्रहे पञ्च मुद्राणि आलभत् येन तेन निमन्त्रितानां कन्यानां भोजनस्य व्यवस्थामकरोत् एवं सम्पूर्ण नवरात्रव्रतस्य चीर्णनं निराहारमेवाकरोत्। तेन पुण्यप्रभावेन सः मृत्युपश्चात् जीमूतेकेतु संज्ञक विद्याधर राजाभवत्। तत्र तेन कल्पवृक्षस्य पूजनात् जीमूतवाहन नामक पुत्रस्य प्राप्तिमकरोत्। सः जीमूतवाहनः पूर्वजन्मे शूरसेनाख्यः राजा आसीत्। तेन राज्ञा वासन्तिक नवरात्र पश्चात् चैत्रशुक्ल नवम्यां तिथौ वाल्मीकेराश्रमं आगत्य तत्र रामकथायाः श्रवणमकरोत्। तेन पुण्यप्रभावेन तस्य जन्म जीमूतवाहन रूपेणाभवत्। जीमूतवाहनेन कल्पवृक्षात् कामनामकरोत् यत् तस्य राज्ये सर्वा प्रजा धनधान्ययुक्तं भवतु। एवमेवाभवत्। तदा प्रजाहेतु राजायाः कोपि प्रयोजनं शेषं नाभवत्। तदा राजा जीमूतकेतुः पुत्रेण सार्धं मलयगिरि उपरि तपःकरणहेतु अगच्छत्। एकदा जीमूतवाहनः गंधमादन पर्वते अगच्छत्। तत्र गरुडपर्वतोपरि तेन नागमातायाः रोदनं अशृणोत्। तस्याः रोदनकारणं अयमासीत् यत् तस्मिन् दिवसे तस्याः पुत्रस्य शंखचूड सर्पस्य गरुड द्वारा भक्षणं निर्धारितमासीत्। जीमूतवाहनेन तस्यामुपरि कृपां कृत्वा सर्पस्य स्थाने स्वदेहं गरुड भक्षणाय प्रस्तुतमकरोत्। यदा गरुडः जीमूतवाहनस्य देहस्य भक्षणं करोति स्म, तदैव शंखचूड सर्पः स्वशत्रुं गरुडस्य समीपगमत् एवं प्रार्थनामकरोत् यत् गरुडः दिव्यदेहयुक्त जीमूतवाहनं परित्यज्य तमेव सर्पं भक्षयेत्। एवं शंखचूड सर्पस्य साहसं दृष्ट्वा गरुडः प्रसन्नोभूत् एवं सर्वेभ्यः वरदानं अकरोत्। शंखचूड हेतु तेन वरं अददात् यत् अस्य जात्याः सर्पस्य भक्षणं सः नैव करिष्यति। जीमूतवाहनाय वरं अददात् यत् सः दीर्घकालेन राज्यं कृत्वा वैकुण्ठं गमिष्यसि। एवं कथां कथयित्वा वेतालेन विक्रमं प्रति प्रश्नमकरोत् यत् जीमूतवाहन एवं शंखचूडमध्ये महाफलस्य प्रापकः कः अस्ति। विक्रमः कथयति यत् नृपस्य स्वाभाविक रूपेण परोपकारस्य स्वभावं भवति। अतः यदि सः स्वदेहस्य दानं गरुडं प्रति करोति, एवं तदोपरि स्व पतिव्रता पत्न्याः प्रभावेण पुनर्जीवनं प्रापयति, न तत् महाफलम्। शंखचूड सर्पः निर्भयं भूत्वा स्वशत्रुं प्रति आगच्छति, अयं महाफलं अस्ति।

     कथासरित्सागरे अस्मिन् कथायां परिवर्तनाः कृताः सन्ति। तत्र नवरात्रव्रतप्रभावेन जीमूतकेतु एवं जीमूतवाहनस्य जन्मानां उल्लेखं नास्ति। एकं अतिरिक्तं उल्लेखमस्ति यत् शंखचूड सर्पः स्वदेहं गरुड हेतु अर्पणकरणपूर्वं गोकर्णेश्वर शिवं प्रणामकर्तुं गच्छति। प्रत्यागत्य सः गरुडेन जीमूतवाहनस्य भक्षणं पश्यति एवं क्रोशति हे गरुड, जीमूतवाहनस्य भक्षणं मा कुरु। मां भक्षय। अहं तव वास्तविक भक्षः अस्मि।

     भविष्य पुराणे शारदीय नवरात्रव्रत चीर्णनस्य फलं जीमूतकेतोः जन्मरूपेण कथितं भवति एवं वासन्तिक नवरात्रस्य फलं जीमूतवाहनस्य जन्मरूपेण कथितं भवति। शारदीय नवरात्रे व्रतस्य निराहारं चीर्णनं अपेक्षितं भवति। निराहारस्य किं परिणामं भविष्यति। देहे यः पुण्य ऊर्जा अस्ति, यः पुण्य उदकमस्ति, तस्य गतिः अधोगामी न भूत्वा ऊर्ध्वगामी भविष्यति। तदोपरि तत् पुण्यजलं वर्षारूपेण सर्वस्मिन् देहे वर्षिष्यति। नायं आवश्यकं अस्ति यत् एषां सूक्ष्म प्रक्रियाणां प्रत्यक्ष रूपेण अनुभवं भवेत्। विज्ञ जनाः कथयन्ति यदि निराहार व्रते शिरोवेदना इत्यादि भवति, सोपि उदकस्य ऊर्ध्वमुखी गत्याः संकेतमस्ति। देहमध्ये पुण्योदकस्य ऊर्ध्वमुखी भवनं, तदोपरि वर्षणं इत्याद्याः सर्वेषां प्रक्रियाणां सादृश्यं भौतिक जगते ग्रीष्मकाले मेघस्य उत्पत्तिः, तदोपरि वर्षाकाले तस्य वर्षणं इत्यादि सार्धं अस्ति। पुराणेषु एषां मेघानां गुणानां सप्तधा विभाजनं अस्ति एवं तदनुसारेण तेषां नामानि सन्ति श्वेत, हरित, जीमूत इत्यादि। जीमूत अर्थात् जड द्रव्ये जीवनस्य सृष्टिकर्ता, जीवस्य प्रेरकः। जीमूत एवं जीमूतवाहन शब्दानां मध्ये कः अन्तरमस्ति। स्कन्द अम्बिकाखण्डे ३१.४६ प्रश्नमस्ति यत् शिवः  वृषभवाहनः  अस्ति, न जीमूतवाहन कदापि श्रूयते। कदा शिवः जीमूतवाहनः आसीत्। उत्तरं दीयमानमस्ति यत् पुराकाले यज्ञः तपःकरणेन जीमूत नामस्य प्राप्तिमकरोत्। तदा शिवः तं यज्ञं स्ववाहनरूपेण स्वीकुरुत। कालांतरे दक्षयज्ञे दक्षस्य शिरःकर्तन सार्धं यज्ञस्यापि शिरस्य कर्तनमभूत्। तदा शिवः जीमूतं स्ववाहनं विहाय वृषभं वाहनं कृतवान्। अयं कथानकं अत्यन्तं महत्त्वपूर्णमस्ति। यथा डा. दयानन्द भार्गवेण व्याख्यातमस्ति, सोमयागे ऊर्जायाः वर्धनस्य द्विप्रकाराः सन्ति ब्रह्मौदनं एवं प्रवर्ग्यः। यदा उदकस्य गतिः ऊर्ध्वमुखी भवति, तत् ब्रह्मौदनं अस्ति, अयं प्रतीयते। यदा तदुदकं वर्षति, तदा तत् प्रवर्ग्यरूपेण वर्षति, अयं प्रतीयते। प्रवर्ग्य अर्थात् चेतनायाः परितः। ब्रह्मौदनं केवल केन्द्रीय बलमस्ति, प्रवर्ग्यः सार्वत्रिक बलमस्ति। दक्षयज्ञस्य कथा संकेतं ददाति यत् जीमूतः शिवस्य वाहनं केवलं तदैव भवति यदा तत् ब्रह्मौदनं एवं प्रवर्ग्यं, द्वावपि भवति। भविष्य पुराणस्य वर्तमान कथायां जीमूतवाहनस्य जन्म वासन्तिक नवरात्रे वल्मीकस्याश्रमे रामकथा श्रवणात् भवति। वल्मीक अर्थात् यदा सर्वदेहोपरि रामस्य वर्मस्य, कवचस्य स्थापना भवति, तदा वल्मीकं भवति। देहोपरि सर्वत्र रक्षकशक्तीनां नियोजनं, न्यासं वल्मीकं अस्ति। अयं संकेतः अस्ति यत् सोमयागे यः प्रवर्ग्यं संज्ञा अस्ति, तत् व्यवहारे वर्म, वल्मीकमस्ति।

     वर्तमानकथायां मुख्य पात्रेषु एकः पात्रः शंखचूड सर्पः अस्ति। वराह पुराण ३१.१५ अनुसारेण अविद्याविजयः शङ्खमस्ति।  विष्णुधर्मोत्तरपुराण ३.५२.१५ अनुसारेण रत्याः हस्ते शंखं अर्थस्य प्रतीकमस्ति। लक्ष्म्याः हस्ते शंङ्खः ऋद्ध्याः प्रतीकमस्ति (विष्णुधर्मोत्तर पुराण ३.८२.८)। एकः शब्दमस्ति, एकमर्थम्। रामः शब्दमात्रसमूहस्य स्वामी अस्ति, लक्ष्मणः अर्थमात्रसमूहस्य स्वामी अस्ति। अयं तथ्यः स्पष्टमस्ति यत् शङ्खः शब्दं नास्ति, अर्थमस्ति। सोमयागे प्रथमतः सामवेदानुसारेण स्तोत्रस्य गायनं भवति, तदोपरि ऋग्वेदानुसारेण तस्य स्तोत्रस्य शंसनं भवति। अयं शंसनमेव लौकिक कर्मकाण्डस्य शंखमस्ति, अयं सम्भवमस्ति। शंसनं अर्थात् श्रुत्याः स्मृतिकरणम्। स्तोत्रं शब्दमस्ति, शंसनमर्थम्। शंखस्य स्थित्यां ऊर्जायाः विकासं मन्दगत्या भवति। अतः शंखोपरि शनिग्रहस्य आधिपत्यं भवति। वैदिक कर्मकाण्डे सर्वेषां मंदगतिक क्रियाणां तीव्रगतिक प्रक्रियासु रूपान्तरणं गरुडस्य माध्यमे भवति। विष्णु पुराण १.२२.७० , गोपालोत्तरतापिन्युपनिषद १७ इत्यादिषु कथनं भवति यत् शङ्खः भूतादि अहंकारस्य प्रतीकमस्ति

भूतादिमिन्द्रियादिञ्च द्रिधाहंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङरूपेण च स्थितम् ।।

अस्य भूतादि अहंकारस्य चरमं रूपं किमस्ति, अस्य उद्घाटनं कथासरित्सागरस्य अनेन कथनेन भवति यत् शंखचूड सर्पः गोकर्णेश्वरं प्रणामं कर्तुं गच्छति। स्कन्दपुराण ७.१.१०.११ मध्ये गोकर्ण तीर्थस्य वर्गीकरणं आकाश महाभूतान्तर्गतं अस्ति। अयं अनुग्रहस्य क्षेत्रं अस्ति। महाभूतानां गुणानां विवेचन हेतु महाभूतोपरि टिप्पणी पठनीयः। शंखचूड सर्पस्य चूडामणिः किं अस्ति। अयं प्रतीयते यत् पञ्चानामपि महाभूतानां मध्ये आकाश महाभूते स्थितिः चूडामणिः अस्ति। शंखचूड सर्पः गोकर्णेश्वरं नत्वानन्तरमेव स्वस्य देहस्य समर्पणं गरुडहेतु करोति। अन्य शब्देषु, गोकर्णेश्वरं नमस्कृत्वा शंखचूडः स्वयं गरुड एव भवति।

प्रथम लेखन श्रावण पूर्णिमा, विक्रम संवत् २०७३(१८-८-२०१६ई.)

 

. स पुरोवातमेव हिंकारमकरोत्, जीमूतान् प्रस्तावम् , स्तनयित्नुमुद्गीथम्, विद्युतं प्रतिहारम्, वृष्टिं निधनम्, यद्वृष्टात् प्रजाश्चौषधयश्च जायन्ते ते सप्तम्यावकरोत्। । जैउ १,, ,१ ।

. जीमूतान् हृदयौपशाभ्याम् (प्रीणामि) । मै ३, १५,७ काठ ५३,६ ।

. ये (. पर्वतानाम्) पक्षा आसंस्ते जीमूता अभवंस्तस्मात्ते गिरिमुपप्लवन्ते । योनिर्ह्येषामेष तस्माद् गिरौ भूयिष्ठं वर्षति । काठ ३६. ( तु. मै १,१०, १३)

११.८.१.[२]

स ह प्रजापतिरीक्षां चक्रे  कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं जीमूतैश्च नक्षत्रैश्च दिवम्

एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।

सर्वतः सलिलं शीतं जीमूत इव वर्षति ।। महाभारत उद्योग 5-98-23

 

कश्यप उवाच।   

आत्मा रुद्रो हृदये मानवानां स्वं स्वं देहं परदेहं च हन्ति।

वातोत्पातैः सदृशं रुद्रमाहुर्देवं जीमूतैः सदृशं रूपमस्य।।

ऐल उवाच।

न वै वातः परिवृणोति कश्चिन्न जीमूतो वर्षति तत्र देवः।

तथा युक्तो दृश्यते मानुषेषु कामद्वेषाद्वध्यते मुह्यते च।। महाभारत शान्ति    12-73-58

रूयते प्रथमाभ्यासे नादो नाना-विधो महान्।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः॥हयो-४.८४॥
आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः।
मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास् तथा॥हयो-४.८५॥
अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः।
इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः॥हयो-४.८६॥
महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ।
तत्र सूक्ष्मात् सूक्ष्मतरं नादम् एव परामृशेत्॥- हयो-४.८७

यज्ञ उवाच

भगवन् लोकसिद्ध्यर्थं प्रयुक्तोहं६३ स्वयंभुवा ।

न च मेस्ति तथा वीर्यमन्यमिच्छ६४ नमस्तव । । ४४। ।

देवदेव उवाच

जीमूतो भव लोकानां तव सिद्धिर्भविष्यति ।

ततोमृताभिरद्भिस्त्वं लोकान् संवर्धयिष्यति । ।४५।।

यज्ञ उवाच

जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम् ।

अस्मद्भवन्तं पृष्ठेन वहेयं विद्युतालय (?) । । स्कन्द अम्बिका ३१.४६ । ।